SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा - ५६-५७ किञ्च, एकान्तवाद्युपन्यस्तहेतोः किं सामान्यं साध्यम्, आहोस्विद् विशेषः उत उभयं परस्परविविक्तम्, उतस्विद् अनुभयमिति विकल्पाः । तत्र न तावत् सामान्यम् केवलस्य तस्य असंभवात् अर्थक्रियाकारित्वविकलत्वाच्च । नापि विशेषः तस्य अननुयायित्वेन साधयितुमशक्यत्वात् । नापि उभयम् उभयदोषानतिवृत्तेः । नापि अनुभयम् तस्य असतो हेत्वव्यापकत्वेन साध्यत्वायोगात् । एतदेव आह गाथापष्टार्थेन - अन्योन्यप्रतिक्रुष्टौ प्रतिक्षिप्तौ द्वावपि एतौ सामान्य- विशेषैकान्तौ असद्वादाविति । इतर विनिर्मुक्तस्य एकस्य शशशृङ्गादेरिव साधयितुमशक्यत्वात् ।। ५६ । । [S.T.P. 725] २२२ -: शास्त्रवार्त्तासमुच्चये : : स्याद्वादकल्पलताटीकायां स्त. ७, गा. २४ किञ्च, परः साध्यं साधयन् न तावत् सामान्यं साधयेत्, केवलस्य तस्याऽसंभवात् । नापि विशेषम्, तस्याननुयायित्वेन साधयितुमशक्यत्वात् । न च सामान्योपरागेण विशेषस्याप्यनुयायित्वम्, समवायनिषेधेन तदुपरागाऽसिद्धेः 'पर्वतो जातिमद्वान्' इत्यादावतिप्रसङ्गाच्च । नाप्युभयम्, उभयदोषाऽनतिवृत्तेः । नाप्यनुभयम्, तस्याऽसत्त्वात् इत्याद्यूह्यम् । तदिदमुक्तम्- [सम्मतौ] “साहम्मओ व्व अत्थं साहिज्ज परो विहम्मओ वा वि । अन्नोन्नं पडिकुट्टा दो व अ एए असव्वाया " ।। ३ / ५६ ।। इति । [ परस्परभिन्नं सामान्य-विशेषयोः स्वरूपमनूद्य तस्य निराकरणम् ] सामान्य-विशेषयोः स्वरूपं परस्परविविक्तमनूद्य निराकुर्वन् आहदव्वट्ठियवत्तव्वं सामण्णं पज्जवस्स य विसेसो । एए समोवणीआ विभज्जवायं विसेसेंति ।। ५७ ।। द्रव्यास्तिकस्य वक्तव्यं वाच्यम् विशेषनिरपेक्षं सामान्यमात्रम्, पर्यायास्तिकस्य पुनः अनुस्यूताकारविविक्तो विशेष एव वाच्यः एतौ च सामान्यविशेषौ अन्योन्यनिरपेक्षौ एकैकरूपतया परस्परप्राधान्येन वा एकत्र उपनीतौ प्रदर्शितौ विभज्यवादम् अनेकान्तवादं सत्यवादस्वरूपम् अतिशयाते असत्यरूपतया ततस्तौ अतिशयं लभेते इति यावत्-विशेषे साध्ये 1. दोण्णवि (संमति ) । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy