________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५७-५८
२२३
अनुगमाभावतः, सामान्ये साध्ये सिद्धसाधनतया साधनवैफल्यतः, प्रधानोभयरूपे साध्ये उभयदोषापत्तितः, अनुभयरूपे साध्ये उभयाभावतः साध्यत्वायोगात् । तस्माद् विवादास्पदीभूतसामान्यविशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिणि अन्योन्यानुविद्धसाधर्म्यवैधर्म्यस्वभावद्वयात्मकैकहेतुप्रदर्शनतो नैकान्तवादपक्षोक्तदोषावकाशः संभवी, अत एव गाथापटाार्धेन-एतौ सामान्य-विशेषौ समुपनीतौ परस्परसव्यपेक्षतया ‘स्यात्'पदप्रयोगतो धर्मिणि अवस्थापितौ विभज्यवादम् एकान्तवादम् विशेषयतो निराकुरुतः एवमेव तयोरात्मलाभात् अन्यथा अनुमानविषयस्य उक्तन्यायतः असत्त्वात् इत्यपि दर्शयति ।।५७।।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा.२४ अनेकान्ते तु न साध्यसिद्धिरनुपपन्ना, कथञ्चिद् वह्निमत्तायाः साध्यत्वेन ‘पर्वतो द्रव्यवान्' इत्यादावनतिप्रसङ्गात्, वह्निमत्ताया द्रव्यवत्तासामान्यक्रोडीकृतत्वेऽपि कथञ्चिदतिरेकात्, विवादास्पदीभूतसामान्य-विशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिसिद्धेष्टा; अन्यथा ‘पर्वतसामान्यं वह्निमत्तयाऽनुमिनोमि' 'इमं पर्वतं वह्निमत्तयाऽनुमिनोमि' इत्यादि विभज्याध्यवसायाकारानुपपत्तेः, इतरत्र संशयाऽनिवृत्तिप्रसङ्गाञ्च । इत्यन्यत्र विस्तरः । तदिदमाह - [सम्मतौ]
“दव्वट्ठिअवत्तव्यं सामण्णं पजवस्स य विसेसो ।
एए समोवणीया विभजवायं विसेसंति ।। ३/५७ ।। इति । तदेवं 'स्याद्वादिनो न क्वचिदपि निष्टायो युज्यते' इति पूर्वपक्षिणोक्तं निराकृतम् ।। २४ ।।
_[ अनेकान्तरूपतया वस्तु साधयतो वादिनोऽजेयत्वाभिधानम् ] यत्र अनुमानविषयतया अभ्युपगम्यमाने साध्ये दूषणवादिनः अवकाश एव न भवति तदेव साध्यं हेतुविषयतया अभ्युपगन्तव्यमिति दर्शयन्नाह
हेउविसओवणीयं जह वयणिज्जं परो नियत्तेइ ।
जइ तं तहा पुरिल्लो दाइंतो केण जिव्वंतो ।।५८।। हेतुविषयतया उपनीतम् उपदर्शितं साध्यधर्मिलक्षणं वस्तु पूर्वपक्षवादिना ‘अनित्यः शब्दः' इत्येवं यथा वचनीयं परो दूषणवादी निवर्तयति सिद्धसाध्यताऽननुगमदोषाधुपन्यासेन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org