________________
૨૨૪
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५८-५९-६०
एकान्तवचनीयस्य तदितरधर्माननुषक्तस्य अनेकदोषदुष्टतया निवर्तयितुं शक्यत्वात् । यदि तत् तथा द्वितीयधर्माक्रान्तं स्यात्' शब्दयोजनेन पुरिल्लः पूर्वपक्षवादी अदर्शयिष्यत ततोऽसौ नैक केनचिद् अजेष्यत । जितप्टासौ तथाभूतस्य साध्यधर्मिणोऽप्रदर्शनात् प्रदर्शितस्य च एकान्तरूपस्य असत्त्वात् तत्प्रदर्शकोऽसत्यवादितया निग्रहार्ह इति ।।५८ ।।
[ एकान्तानिष्टिातरूपाभ्यां वस्तु वदतो लोककपरीक्षकाग्राह्यावचनत्वकथनम् ] एतदेव दर्शयन्नाह
एयन्ताऽसब्भूयं सब्भूयमणिच्छियं च वयमाणो ।
लोइय-परिच्छियाणं वयणिज्जपहे पडइ वादी ।।५९।। आस्तां तावद् एकान्तेन असद्भूतम् असत्यम्, सद्भूतमपि अनिष्टिातं वदन् वादी लौकिकानाम् परीक्षकाणां च वचनीयमार्ग पतति ।।५९ ।।
[ निर्दोषभावप्ररूपणाया मार्गप्रकाशनम् ] स एव च सन्मार्गः इति उपसंहरन्नाह
दव्वं खित्तं कालं भावं पज्जाय-देस-संजोगे ।
भेदं च पडुञ्च समा भावाणं पण्णवणपज्जा ।।६०।। द्रव्य-क्षेत्र-काल-भाव-पर्याय-देश-संयोगान् भेदं चेत्यष्टौ भावान् आश्रित्य वस्तुनो भेदे सति समा सर्ववस्तुविषयायाः प्रज्ञापनायाः स्याद्वादरूपायाः पर्या पन्था मार्ग इति यावत् ।
तत्र द्रव्यं पृथिव्यादि, क्षेत्रं स्वारम्भकावयवस्वरूपं तदाश्रयं वा आकाशम्, कालं युगपदयुगपञ्चिरक्षिप्रप्रत्ययलिङ्गलक्षणं वर्तनात्मकं वा नव-पुराणादिलक्षणम्, भावं मूलाङ्कुरादिलक्षणम्, पर्यायं रूपादिस्वभावम्, देशं मूलाङ्कुरपत्रकाण्डादिक्रमभाविविभागम्, संयोगं भूम्यादिप्रत्येकसमुदायं द्रव्य-पर्यायलक्षणम्, भेदं प्रतिक्षणविवर्तात्मकं वा जीवाजीवादिभावानां प्रतीत्य समानतया तदतदात्मकत्वेन प्रज्ञापना निरूपणा या सा सत्पथ इति न हि तदतदात्मकैकद्रव्यत्वादिभेदाभावे खरविषाणादेर्जीवादिद्रव्यस्य विशेषः यतो न द्रव्य-क्षेत्र-काल-भावपर्याय-देश-संयोग-भेदरहितं वस्तु केनचित् प्रत्यक्षाद्यन्यतमप्रमाणेन अवगन्तुं शक्यम् ।।६० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org