________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६१-६२
२२५
[ विवेचनविकलामागमस्य प्रतिपत्तिमाश्रयतां तत्त्वानभिज्ञत्वख्यापनम् ] ये तु अविवेचितागमप्रतिपत्तिमात्रमाश्रयन्ते ते अनवगतपरमार्था एव इति प्रतिपादयन्नाह
पाडेक्कनयपहगयं सुत्तं सुत्तहरसद्दसंतुट्ठा ।।
अविकोवियसामत्था जहागमविभत्तपडिवत्ती ॥६१।। प्रत्येकनयमार्गगतं सूत्रम्-"क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः । यद् इदं त्रैधातुकम्” [ ] इति, “ग्राह्यग्राहकोभयशून्यं तत्त्वम्” इति, “नित्यमेकमण्डव्यापि निष्क्रियम्” [ ] इत्यादि, “सदकारणवद् नित्यम्” [वैशेषिकद० ४-१-१] इति, “आत्मा रे श्रोतव्यो ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः” [बृहदा० उ० २-४-५] इत्यादि, “सत्ता-द्रव्यत्वसंबन्धात् सद्रव्यं वस्तु” [ ] इति, “परलोकिनोऽभावात् परलोकाभावः” [ ] “चोदनालक्षणोऽर्थो धर्मः” [मीमांसाद० १-१-२] इति, “धर्माधर्मक्षयंकरी दीक्षा" [ ] इत्यादिकमधीत्य सूत्रधरा वयम्' इति शब्दमात्रसंतुष्टा गर्ववन्तः अविकोविदसामर्थ्याः अविकोविदम् अज्ञं सामर्थ्य येषां ते तथाऽविदितसूत्रव्यापारविषया इति यावत् । किमित्येवं ते ? इत्याह- यथाश्रुतमेव अविभक्ता अविवेकेन प्रतिपत्तिरेषामिति कृत्वा सूत्राभिप्रायव्यतिरिक्तविषयविप्रतिपत्तित्वात् इतरजनवद् अज्ञा इत्यभिप्रायः । अथवा स्वयूथ्या एव एकनयदर्शनेन कतिचित् सूत्राणि अधीत्य केचित् ‘सूत्रधरा वयम्' इति गर्विता यथावस्थितान्यनयसव्यपेक्षसूत्रार्थापरिज्ञानाद् अविदितात्मविद्वत्स्वरूपा इति गाथाभिप्रायः ।।६१ ।।
[ निरपेक्षकनयप्रवृत्तानां दोषोद्भावनम् ] अथ एषामेकनयदर्शनेन प्रवृत्तानां यो दोषस्तमुद्भावयितुमाह
सम्मइंसणमिणमो सयलसमत्तवयणिज्जणिद्दोसं ।
अत्तुक्कोसविणट्ठा सलाहमाणा विणासेंति ।।६२।। सम्यग्दर्शनमेतत् परस्परविषयाऽपरित्यागप्रवृत्तानेकनयात्मकम् तञ्च ‘स्यान्नित्यः' इत्यादि सकलधर्मपरिसमाप्तवचनीयतया निर्दोषम्, एकनयवादिनस्त्वविषये सूत्रव्यवस्थापनेन आत्मोत्कर्षेण विनष्टाः स्याद्वादाभिगमं प्रति अनाद्रियमाणा ‘वयं सूत्रधराः' इत्यात्मानं श्लाघमानाः सम्यग्दर्शनं विनाशयन्ति तदात्मनि न व्यवस्थापयन्तीति यावत् ।।६२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org