________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६३
[ न शासनभक्तिमात्रेण नाप्यांशिकज्ञानमात्रेणानेकान्तप्ररूपणाकुशल इति कथनम् ] अथ न ते आगमप्रत्यनीकाः तद्भक्तत्वात् तद्देशपरिज्ञानवन्तष्टोति कथं तद् विनाशयन्तीति ?
अत्राह
२२६
हु सासणभत्तीत्तएण सिद्धंतजाणओ होइ ।
ण विजाणओ वि णियमा पण्णवणाणिच्छिओ णामं ।। ६३॥
न च शासनभक्तिमात्रेणैव सिद्धान्तज्ञाता भवति न च तदज्ञानवान् भावसम्यक्त्ववान् भवति अज्ञातस्य अर्थस्य विशिष्टरुचिविषयत्वानुपपत्तेस्तद्भक्तिमात्रेण श्रद्धानुसारितया द्रव्यसम्यक्त्वम् । मार्गानुसार्यवबोधमात्रानुषक्तरुचिस्वभावं तु सदपि न भावसम्यक्त्वसाध्यफलनिर्वर्तकम् भावसम्यक्त्वनिमित्तत्वेनैव तस्य द्रव्यसम्यक्त्वरूपत्वोपपत्तेः । न च जीवादितत्त्वैकदेशज्ञाताऽपि नियमतोऽनेकान्तात्मकवस्तुस्वरूपप्रज्ञापनायां निष्टिशतो भवति एकदेशज्ञानवतः सकलधर्मात्मकवस्तुज्ञानविकलतया सम्यक् तत्प्ररूपणाऽसंभवात् । तथाहिसर्वज्ञो यथावस्थितैकदेशज्ञो जीवादिसकलतत्त्वज्ञता तु आगमविदः सामान्यरूपतया अभिधीयते “मति श्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ” [ तत्त्वार्थ० १ २७] इति वचनात् । [S.T.P. 732]
तदेवमेकान्तवादिप्रकल्पितस्य प्रमाण- प्रमेयादेः सर्वस्य अघटमानत्वात् तच्छासनं दृष्टवत् अदृष्टार्थेऽपि विसंवादित्वाद् अप्रमाणम् । तत्प्रतिपक्षभूतं च यथोक्तजीवादितत्त्वप्रकाशकं सर्वत्र दृष्टार्थे अव्यभिचारित्वात् अदृष्टार्थेऽपि सहेतुके हेयोपादेयस्वरूपे बन्ध-मोक्षलक्षणे वस्तुतत्त्वे प्रमाणमिति स्थितम् । अतः पूर्वापरैकवाक्यतया सकलानन्तधर्मात्मकजीवादितत्त्वप्रतिपादकसूत्रसंदर्भस्य नय- प्रमाणद्वारेण प्रवृत्तस्य तात्पर्यार्थज्ञाता सिद्धान्तज्ञाता न पुनरपरिहृतविरोधतदेकदेशज्ञाता । न चैकदेशज्ञः स्याद्वादप्ररूपणायाः सम्यक् समर्थ इति व्यवस्थितम् ।।६३ ।। [S.T.P. 745]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org