________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा - ६४-६५
[ अर्थवशात् सूत्रस्य निष्पत्तिर्न तु निरपेक्षसूत्रमात्रेणार्थस्येति कथनम् ] सूत्रस्य सूचनार्थत्वात् अर्थवशात् तस्य निष्पत्तिः न पुनः सूत्रमात्रेणैव अन्यनिरपेक्षेण अर्थनिष्पत्तिः इत्याह
सुत्तं अत्थनिमेणं न सुत्तमेत्तेण अत्थपडिवत्ती । अत्थगई उण णयवायगहणलीणा दुरभिगम्मा ।। ६४ ।।
अनेकार्थराशिसूचनात् सूते वा अस्माद् अर्थराशिः शेते वा अस्मिन् अर्थसमूहः श्रूयते वा अस्माद् अनेकोऽर्थ इति निरुक्तवशात् सूत्रम् । अर्यत इति अर्थः साक्षात् तस्याभिधेयः गम्यष्टा सामर्थ्यात् तस्य स्थानमेव सूत्रम् यथार्थं सूत्रार्थव्यवस्थापनात् सूत्रान्तरनिरपेक्षस्य तस्य अर्थव्यवस्थापने प्रमाणान्तरबाधया तदर्थस्य तत्सूत्रस्य उन्मत्तकवाक्यवत् असूत्रत्वापत्तेः । अत एव निर्युक्त्याद्यपेक्षत्वात् सूत्रार्थस्य न सूत्रमात्रेणैव अर्थस्य पौर्वापर्येण अविरुद्धस्य प्रतिपत्तिः अयथार्थतयाऽपि अविवृतस्य तस्य श्रुतेः । अर्थस्य तु यथाव्यवस्थितस्य गतिः प्रतिपत्तिः पुनर्द्रव्यार्थ-पर्यायार्थलक्षणनयवादावेव गहनं विपिनम् तत्र लीना तथा च दुरधिगम्या दुरवबोधा सकलनयसम्मतार्थस्य प्रतिपादकं सूत्रम् - " जीवो अणाइणिहणो” [ ] इत्यादिवाक्यवद् न प्रमाणार्थसूचकं स्यात् प्रवृत्तानि च नयवादेन सूत्राणि । तथा च आगमः
“ णत्थि एण विहूणं सुत्तं अत्थो य जिणमए किञ्चि । आसज्ज उ सोआरं गए णअविसारओ बूआ ” ।।
[ अधीतसूत्रस्यार्थसंपादने प्रयत्नाभावे शासनविडम्बकत्वकथनम् ]
[आवश्यकनि० उवग्घायनि० गा० ३८ ] इति । । ६४ ।।
यत एवम् अनेकान्तात्मकार्थप्रतिपादकत्वेन सूत्रं व्याख्येयम्
तम्हा अहिगयसुत्तेण अत्थसंपायणम्मि जइयव्वं । आयरियधीरहत्था हंदि महाणं विलंबेन्ति । । ६५ ।।
२२७
Jain Education International 2010_02
तस्मात् इति पूर्वोक्तार्थप्रत्यवमर्शार्थः अधिगतम् अधीतम् अशेषं सूत्रं येन असौ तथा अधीतत्कालव्यावहारिकाशेषसिद्धान्तेन इति यावत् अर्थसंपादने तद्विषयप्रमाण-नय
For Private & Personal Use Only
www.jainelibrary.org