SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२८ संमतितर्कप्रकरणे, काण्ड-३, गाथा-६५-६६ स्वरूपावधारणे यतितव्यम् । अधीत्य सूत्रं श्रोतव्यम् श्रुत्वा नयसर्वसंवादविनिष्टायपरिशुद्ध भावनीयम् अन्यथा आचार्या धीरहस्ता अशिक्षितशास्त्रार्था अनभ्यस्तकर्माऽपि कर्मणि धृष्टतया व्याप्रियते येषां हस्तस्ते धीरहस्ता आचार्याप्टा ते अशिक्षितधृष्टाप्टा इति यावत् हंदि गृह्यताम् ते तादृशा महाज्ञाम् आप्तशासनं विगोपयन्ति विडम्बयन्ति इति यावत् ||S.T.P.746] एवमन्यदपि आगमबाह्यं स्वमनीषिकया परपरिकल्पितमागम-युक्तिप्रदर्शनेन प्रतिषेद्धव्यम् न्यायदिशः प्रदर्शितत्वात् । तदेवम् अनधीताऽश्रुतयथावदपरिभावितागमतात्पर्या दिग्वासस इव आप्ताज्ञां विगोपयन्तीति व्यवस्थितम् ।।६५ । । [S.T.P.755] [बहुश्रुतत्वादिदर्पात् तात्पर्यापरिज्ञानाचानिष्टिातशास्त्रार्थस्य सिद्धान्तप्रत्यनीकत्वकथनम्] यत एवं ततः जह जह बहुस्सुओ संमओ य सिस्सगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धतपडिणीओ ।।६६।। यथा यथा बहुश्रुतः सम्यगपरिभावितार्थानेकशास्त्रश्रवणमात्रतः तथाविधाऽपराऽविदितशास्त्राभिप्रायजनसंमतष्टा शास्त्रज्ञत्वेन अत एव श्रुतविशेषानभिज्ञैः शिष्यगणेः समंतात् परिवृतष्टा अविनिष्टिातष्टा समये तथाविधपरिवारदात् समयपर्यालोचनेऽनादृतत्वात् तथा तथा सिद्धान्तप्रत्यनीकः यथावस्थितवस्तुस्वरूपप्रकाशकार्हदागमप्रतिपक्षः निस्सारप्ररूपणया अन्यागमेभ्योऽपि भगवदागममधः करोतीति यावत् ।।६६ ।। -: पञ्चवस्तुकप्रकरणम् :जह जह बहुस्सुओ सम्मओ य सीसगणसंपरिवुडो अ । अविणिच्छिओ य समए, तह तह सिद्धंतपडिणीओ ।। ९४७ ।। यथा यथा बहुश्रुतः श्रवणमात्रेण सम्मतष्टा तथाविधलोकस्य शिष्यगणसम्परिवृतष्टा किमित्याहबहुमूढपरिवारप्टा, अमूढानां तथाविधपरिग्रहणाद्, अविनिष्टिातटा अज्ञाततत्त्वष्टा समये सिद्धान्ते तथा तथा ऽसौ वस्तुस्थित्या सिद्धान्तप्रत्यनीकः सिद्धान्तविनाशकः, तल्लाघवापादनादिति गाथार्थः ।। ९४७ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy