________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६६
२२९
-: उपदेशमाला :
हेयोपादेयाटीका अधुना गौरवद्वारं व्याचिख्यासुस्तावद् गौरववतः स्वरूपमाह -
जह जह बहुस्सुओ सम्मओ य सीसगणसंपरिवुडो य ।
अविणिच्छिओ य समए, तह तह सिद्धंतपडिणीओ ।। ३२२ ।। जह जह बहुस्सुओ० गाहा । यथा यथा बहुश्रुतः श्रवणमात्रेण, सम्मतप्टा तथाविधलोकस्य, शिष्यगणसंपरिवृतप्टा बहुमूढपरिवारप्टा, मूढानां तथाविधपरिग्रहणाद्, अविनिष्टिातटाज्ञाततत्त्वष्टा समये सिद्धान्ते, ज्ञाततत्त्वस्य ऋद्धिरससातगौरवेषु प्रतिबन्धाभावात्, तद्वतः परमार्थतो ज्ञानशून्यत्वात्, तथा तथाऽसौ वस्तुस्थित्या सिद्धान्तप्रत्यनीकः सिद्धान्तविनाशकस्तल्लाघवापादनादिति ।। ३२२ ।।
-: उपदेशरहस्य :जह जह बहुस्सुओ संमओ अ सीसगणसंपरिवुडो अ ।
अविणिच्छिओ अ समए तह तह सिद्धंतपडिणीओ ।। १५३ ।। [३/६६ सम्म०] यथा यथा बहुश्रुतः परिपठितबहागमः, संमतष्टा बहुमतः संसाराभिनन्दिनां गतानुगतिकप्रवाहपतितानां तदनुवर्तिनां चान्येषां बाह्याडम्बरदर्शनमात्रोदितविस्मयानां मुग्धमतीनां च, च पुनः शिष्यगणैर्विनेयवृन्दैः संपरिवृतः समन्तात् परिवृतः, अविनिष्टिातः सम्यगपरिणतष्टा प्रवचने, ऐदम्पर्याज्ञानाद्विरत्यबह्वाञ्च यथास्थितसिद्धान्तस्य विपर्यासापादानात्, अतो नेदृशगुर्वाश्रयणं युक्तं किन्तूक्तगुणवदगुर्वाश्रयणमेव श्रेय इति भावः ।। १५३ ।।
-: गुरुतत्त्वविनिश्चये :
उ. २, गा. ७६ जह जह बहुस्सुओ संमओ अ सीसगणसंपरिवुडो अ ।
अविणिच्छिओ अ समए, तह तह सिद्धंतपडिणीओ ।।७६ ।। 'जह जह'त्ति । यथा यथा बहुश्रुतः श्रुतपल्लवग्राहितया बहुश्रुतत्वख्यातिमान्, अत एव सम्मतः बहुजनादृतः शिष्यगणसंपरिवृतष्टा अविनिष्टिातः साकल्येन तात्पर्याग्राही च समये सिद्धान्ते तथा तथा सिद्धान्तप्रत्यनीको वृथाऽऽडम्बरेण बहूनां मिथ्यात्वोत्पादकत्वाच्छिवभूत्यादिवत् ।।७६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org