SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २३० [ क्रियाप्रधानानां ज्ञानयोगमसाधयतां क्रियाफलानुभवाभावकथनम् ] तस्मात् शास्त्रमधीत्य तदर्थावधारणं विधेयम् अवधृतष्टा तदर्थो नय-प्रमाणाभिप्रायतो यथावत् परिभावनीयः अन्यथा तत्फलपरिज्ञानविकलताप्रसक्तिरित्याह संमतितर्कप्रकरणे, काण्ड-३, गाथा- ६७ I चरण-करणप्पहाणा ससमय-परसमयमुक्कवावारा चरण- करणस्स सारं णिच्छयसुद्धं ण याणंति ।। ६७ ।। चरणं श्रमणधर्मः " 'वय-समणधम्म-संजम वेयावच्चं च बंभगुत्तीओ । णाणइतियं तव-कोहणिग्गहाई चरणमेयं । । [ ओघनि० गा० २] इति वचनात् । व्रतानि हिंसाविरमणादीनि पञ्च, श्रमणधर्मः क्षान्त्यादिर्दशघा, संयमः पञ्चास्रवविरमणादिः सप्तदशभेदः, वैयावृत्त्यं दशधा आचार्याराधनादि, ब्रह्मगुप्तयो नव वसत्यादयः, ज्ञानादित्रितयं ज्ञान - दर्शन - चारित्राणि, तपो द्वादशधा अनशनादि, क्रोधादिकषायषोडशकस्य निग्रहष्टा इति अष्टधा चरणम् । करणं पिण्डविशुद्ध्यादिः “पिंडविसोही समिई भावण-पडिमाइ - इंदियनिरोहो । पडिलेहण-गुत्तीओ अभिग्गहा चेव करणं तु" ।। [ओघनि० गा० ३] इति वचनात् । तत्र पिण्डविशुद्धिः त्रिकोटिपरिशुद्धिराहारस्य “संसट्टमसंसट्ठा उद्घड तह अप्पलेविया चेव । उग्गहिया पग्गहिया उज्झियहम्माय सत्तमिया" ।। इति सप्तधा वा, समितिः ईर्यासमित्यादिः पञ्चधा, भावना अनित्यत्वादिका द्वादश, प्रतिमा मासादिका द्वादश भिक्षूणाम् दर्शनादिका एकादश उपासकानाम्, इन्द्रियनिरोधः चक्षुरादिकरणपञ्चकसंयमः प्रतिलेखनं मुखवस्त्रिकाद्युपकरणप्रत्युपेक्षणमनेकविधम्, गुप्तिः मनो-वाक्कायसंवरणलक्षणा त्रिधा, अभिग्रहा वसतिप्रमार्जनादयोऽनेकविधाः- एतयोष्टारण-करणयोः प्रधानास्तदनुष्ठानतत्पराः स्वसमय-परसमयमुक्तव्यापाराः अयं स्वसमयः अनेकान्तात्मकवस्तुप्ररूपणात् अयं च परसमयः केवलनयाभिप्रायप्रतिपादनात् इत्येतस्मिन् परिज्ञानेऽनादृता Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy