________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६७
२३१
अनेकान्तात्मकवस्तुतत्त्वं यथावत् अनवबुद्ध्यमानाः तदितरव्यवच्छेदेन इति यावत् । चरणकरणयोः सारं फलम् निष्टायशुद्धं निष्टायटा तत् शुद्धं च ज्ञान-दर्शनोपयोगात्मकं निष्कलङ्कम् न जानन्ति न अनुभवन्ति ज्ञान-दर्शन-चारित्रात्मककारणाप्रभवत्वात् तस्य कारणाभावे च कार्यस्य असंभवात् अन्यथा तस्य निर्हेतुकत्वापत्तेः चरण-करणयोप्टा चारित्रात्मकत्वात् द्रव्य-पर्यायात्मकजीवा-दितत्त्वावगमस्वभावरुच्यभावेऽभावात् ।
अथवा चरण-करणयोः सारं निष्टायेन शुद्धं सम्यग्दर्शनं ते न जानन्ति न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तचिः न च स्वसमय-परसमयतात्पर्यार्थानवगमे तदवबोधः बोटिकादेरिव संभवी । अथ जीवादिद्रव्यार्थ-पर्यायार्थापरिज्ञानेऽपि यद् अर्हद्भिरुक्तं तदेव एकं सत्यमित्येतावतैव सम्यग्दर्शनसद्भावः
“मण्णइ तमेव सञ्चं णिस्संकं जं जिणेहिं पन्नत्तं” [ ] इत्याद्यागमप्रामाण्यात्, न; स्वसमयपरसमयपरमार्थानाभिज्ञैर्निरावरणज्ञान-दर्शनात्मकजिनस्वरूपाऽज्ञानवद्भिस्तदभिहितभावानां सामान्यरूपतयाऽपि अन्यव्यवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वात्; नन्वेवमागमविरोधः सामायिकमात्रपदविदो माषतुषादेर्यथोक्तचारित्रिणस्तत्र मुक्तिप्रतिपादनात् सकलशास्त्रार्थज्ञताविकलव्रतस्य व्रताद्याचरणनैरर्थक्यापत्तिष्टा तत्साध्यफलानवाप्तेः न च यथोपवर्णितचरण-करणसम्यग्दर्शनवैफल्यै भवतः ज्ञानादित्रितयस्यापि तत्र पाठात् । न, ये यथोदितचरण-करणप्ररूपणासेवनद्वारेण प्रधानाद् आचार्यात् स्वसमयपरसमयमुक्तव्यापारा न भवन्तीति नञोऽत्र संबन्धात्-ते चरण-करणस्य सारं निष्टायशुद्धं जानन्त्येव गुर्वाज्ञया प्रवृत्तेः चरणगुणस्थितस्य साधोः सर्वनयविशुद्धतया अभ्युपगमात्
“तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहू” [आवश्यक नि० सामाइअनि० गाथा १०२] इत्याद्यागमप्रामाण्यात् अगीतार्थस्य तु स्वतन्त्रचरण-करणप्रवृत्तेः व्रताद्यनुष्ठानस्य वैफल्यमभ्युपगम्यत एव“गीयत्थो य विहारो बीओ गीयत्थमीसओ भणिओ ।” [ ] इत्याद्यागमप्रामाण्यात् ।।६७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org