________________
२३२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६७
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.८६ "अनेकान्तव्यवस्थितिश्रद्धैव भावतः सम्यक्त्वम्” तद्विकलानामुत्कृष्टचारित्रानुष्ठानस्यापि तथाविधफलाभावात्, तदुक्तं वादिगजकेसरिणा श्रीसिद्धसेनदिवाकरण
“चरणकरणप्पहाणा, ससमयपरसमयमुक्कवावारा ।
चरणकरणस्स सारं, णिच्छयसुद्धं ण याणंति ।। ३-६७ ।।" चरणं श्रमणधर्मः
"वयसमणधम्मसंजम-वेयावञ्चं च बंभगुत्तीओ ।
नाणाइतियं तवकोहणिग्गहाई चरणमेयं ।। १ ।।” इति वचनात् । व्रतानि हिंसाविरमणादीनि पञ्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पञ्चाश्रवविरमणादिः सप्तदेशभेदः, वैयावृत्त्यं दशधाऽऽचार्याराधनादि, ब्रह्मगुप्तयो नव वसत्यादयः, ज्ञानादित्रितयं ज्ञानदर्शनचारित्राणि, तपो द्वादशधाऽनशनादि, क्रोधादिकषायषोडशकस्य निग्रहप्टोत्यष्टधा चरणम् ।। करणं पिण्डविशुद्ध्यादि
“पिंडविसोही समिई, भावणपडिमा य इंदियनिरोहो ।
पडिलेहणगुत्तीओ, अभिग्गहा चेव करणं तु ।। १ ।।” इति वचनात् । तत्र पिण्डविशुद्धिस्त्रिकोटिपरिशुद्धिराहारस्य, समितिरीर्यासमित्यादिः पञ्चधा, भावना अनित्यत्वादिका द्वादश, प्रतिमा मासादिका द्वादश भिक्षूणाम्, दर्शनादिका एकादशोपासकानाम्, इन्द्रियनिरोधष्टाक्षुरादिकरणपञ्चकसंयमः, प्रतिलेखनं मुखवत्रिकाधुपकरणप्रत्युपेक्षणमनेकविधम्, गुप्तिर्मनोवाकायसंवरलक्षणा त्रिधा, अभिग्रहा वसतिप्रमार्जनादयोऽनेकविधाः । एतयोप्टारणकरणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमयपरसमयमुक्तव्यापाराः अयं स्वसमयोऽनेकान्तात्मकवस्तुस्वरूपप्ररूपणाद्, अयं च परसमयः केवलनयाभिप्रायप्रतिपादनादित्येतस्मिन् परिज्ञानेऽनादृताः, अनेकान्तात्मकवस्तुतत्त्वं यथावदनवबुध्यमानास्तदितरव्यवच्छेदेनेति यावत्, चरणकरणयोः सारं फलम्, निष्टायशुद्धं निष्टायटा तच्छुद्धं च ज्ञानदर्शनोपयोगात्मकम्, निष्कलङ्कं न जानन्ति नानुभवन्ति, ज्ञानदर्शनचारित्रात्मककारणप्रभवत्वात्तस्य, कारणाऽभावे च कार्यस्यासम्भवात्, अन्यथा तस्य निर्हेतुकत्वापत्तेः, करणचरणयोप्टा चारित्रात्मकत्वात्, द्रव्यपर्यायात्मकजीवादितत्त्वावगमस्वभावरुच्यभावेऽभावात्, अथवा चरणकरणयोः सारं निप्टायेन शुद्धं सम्यग्दर्शनं ते न जानन्ति, न हि
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org