________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६७
२३३
यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचिः, न च स्वसमयपरसमयतात्पर्यार्थानवगमे तदवबोधो बोटिकादेरिव सम्भवी ।
-: उपदेशरहस्यम् :विभज्यवादमेवाभिष्टौति
एसो पवयणसारो सव्वं इच्चत्थमेव गणिपिडगं ।
एअंमि अविण्णाए विहलं चरणं जओ भणियं ।।१०२।। एषः विभज्यवादः प्रवचनसारः, एतप्टोधनेनैव प्रवचनस्य फलवत्त्वात् । “एगे आया” [स्थानांग १-१] इत्यादेरपि तन्त्रपरिकर्मितमत्या एकत्वानेकत्वादिसप्तभङ्गीपरिकर्मितबोधस्यैवोत्पत्तेः, एकनयावधारणे मिथ्यादृष्टिवचनाऽविशेषप्रसङ्गात् । न केवलं प्रवचनकार्यमेवायं अपि तु तत्कारणमपीत्याह-सर्वं निरवशेषम् इत्यर्थकमेव उपदिष्टविभज्यवादार्थकमेव, गणिपिटकं द्वादशाङ्गीरूपम्, अर्थं हि भगवानुपदिशति सूत्रं च ततो गणधरा ग्रनन्ति, स च त्रिपदीरूपः स्याद्वादमूर्तिरिति सिद्धं गणिपिटकस्य स्याद्वादहेतुकत्वम्, यत एवं ततः एतस्मिन्नविज्ञाते अपरिच्छिन्ने विफलम् असारं चरणं चारित्रम्, स्याद्वादरुचिरूपसम्यग्दर्शनशुद्धिशून्यत्वात् । यतो भणितं सम्मतौ [३-६७] श्रीसिद्धसेनदिवाकरपादैः ।।१०२ ।।
चरणकरणपप्पहाणा ससमयपरसमयमुक्कवावारा ।
चरणकरणस्स सारं णिच्छयसुद्धं ण याणंति ।।१०३ ।। [३/६७] चरणं “वयसमणधम्मे"त्यादिगाथोक्तसप्ततिभेदम्, करणमपि “पिंडविसोहीसमिई"त्यादिगाथोक्तसप्ततिभेदम्, ताभ्यां प्रधानास्तत्र नैरन्तर्यादरवन्त इत्यर्थः, स्वसमयपरसमययोर्मुक्तोऽनादृतो व्यापारः स्याद्वादपरिकर्मितधिया विवेचनात्मा यैस्ते तथा 'चरणकरणानुष्ठानेनैव कृतार्था वयम्, किमस्माकं तर्ककर्कशेन वादरसिकरमणीयेन स्याद्वादेन प्रयोजनमि'त्येवं ज्ञानाभ्यासाद् व्यावृत्ता इत्यर्थः, चरणकरणस्य चरणकरणानुष्ठानस्य सारं स्वजन्यफलोत्कर्षाङ्गम्, निष्टायशुद्धं परमार्थदृष्ट्याऽवदातं न तु बाह्यक्रियावल्लोकदृष्ट्यैवापाततो रमणीयमित्यर्थः, न जानन्ति न विचारयन्ति, तदावरणकर्मदोषात् । एवं च तेषामल्पफलमेव चरणकरणानुष्ठानमित्यर्थः ।।१०३ ।।
____ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org