________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५५-५६
२२१
दृष्टान्तदोषा अपि साध्यादिविकलत्वादयो नात्र संभविनः असिद्धत्वादिदोषवत्येव साधने तेषां भावात् । न च अनुमानतः अनेकान्तात्मकं वस्तु तद्वादिभिः प्रतीयते अध्यक्षसिद्धत्वात् यस्तु प्रतिपन्नेऽपि ततस्तस्मिन् विप्रतिपद्यते तं प्रति तत्प्रसिद्धेनैव न्यायेन अनुमानोपन्यासेन विप्रतिपत्तिनिराकरणमात्रमेव विधीयते इति न अप्रसिद्धविशेषणत्वादेर्दोषस्यावकाशः । प्रतिपक्षपरिणामपरभागादीनां तु उत्तरविकाराऽर्वाग्भागदर्शनान्यथानुपपत्त्या अनुमाने न अध्यक्षादिबाधा अस्मदाद्यध्यक्षस्य सर्वात्मना वस्तुग्रहणाऽसामर्थ्यात् स्फटिकादौ च अर्वाग्भागपरभागयोरध्यक्षत एवैकदा प्रतिपत्तेः । न च स्थैर्यग्राह्यध्यक्षं प्रतिक्षणपरिणामानुमानेन विरुध्यते अस्य तदनुग्राहकत्वात् कथंचित् प्रतिक्षणपरिणामस्य तत्प्रतीतस्यैव अनुमानतोऽपि निष्टायात् ।।५५।। [एकान्तवादिनः साधर्म्यण वा वैधhण वैकान्तधर्मयुक्तधर्मिसाधनाशक्तत्वाभिधानम्]
अनेकान्तव्यवच्छेदेन एकान्तावधारितधर्माधिकरणत्वेन धर्मिणं साधयन्नेकान्तवादी न साधर्म्यतः साधयितुं प्रभुः नापि वैधर्म्यतः इति प्रतिपादयन्नाह
साहम्मउ व्व अत्थं साहेज्ज परो विहम्मओ वा वि ।
अण्णोण्णं पडिकुट्ठा दोण्णवि एए असव्वाया ।।५६।। समानस्तुल्यः साध्यसामान्यान्वितः साधनधर्मो यस्य असौ सधर्मा साधर्म्यदृष्टान्तापेक्षया साध्यधर्मी तस्य भावः साधर्म्यम् ततो वा अर्थ साध्यधर्माधिकरणतया धर्मिणं साधयेत् परः अन्वयिहेतुप्रदर्शनात् साध्यधर्मिणि विवक्षितं साध्यं यदि वैशेषिकादिः साधयेत् तदा तत्पुत्रत्वादेरपि गमकत्वं स्यात्, अन्वयमात्रस्य तत्रापि भावात् । अथ वैधाद् विगतस्तथाभूतः साधनधर्मो यस्माद् असौ विधर्मा तस्य भावो वैधर्म्यम् ततो वा व्यतिरेकिणो हेतोः प्रकृतं साध्यं साधयेद् उभाभ्यां वा 'वा'शब्दस्य समुच्चयार्थत्वात्-तथापि तत्पुत्रत्वादेरेव गमकत्वप्रसक्तिः श्यामत्वाभावे तत्पुत्रत्वादेरन्यत्र गौरपुरुषेऽभावाद् उभाभ्यामपि तत्साधने अत एव साध्यसिद्धिप्रसक्तिः स्यात् । [S.T.P. 719]
1. दो वि अ (स्या. कल्प.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org