________________
२२०
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५५
[ आत्मन्येकान्तरूपस्यास्तित्वादिवादषट्कस्य मिथ्यारूपत्वकथनम् ] न केवलं 'नास्ति' इत्यादिषण्मिथ्यात्वस्थानानि तद्विपर्ययेणापि एकान्तवादे तथैव तानीति दर्शयन्नाह
अत्थि अविणासधम्मी करेइ वेएइ अस्थि णिव्वाणं ।
अत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाइं ।।५५।। 'आस्ति आत्मा' इति पक्षः पूरणादेर्वादिनः । ‘स च अविनाशधर्मी' इत्येषा प्रतिज्ञा कपिलमतानुसारिणः । ‘कर्तृ-भोक्तृस्वभावोऽसौ' इति मतं जैमिनेः । 'तथाभूत एवासौ जडस्वरूपः' इति अक्षपादकणभुग्मतानुसारिणः । 'अस्ति निर्वाणम्' 'अस्ति च मोक्षोपायः' इत्यामनन्ति नास्तिक-याज्ञिकव्यतिरिक्ताः पाषण्डिनः । एते च अभ्युपगमा एकान्ताभ्युपगमत्वाद् मिथ्यास्थानानि, एष्वपि पूर्ववद् विकल्पद्वयेऽपि तद्दोषानतिक्रान्तेः एकान्तेन तदस्तित्वादेरध्यक्षाऽनुमानाभ्यामप्रतीतेः तथाभ्युपगमे च स्वास्तित्वेनेवान्यभावास्तित्वेन तस्य भावात् सर्वभावसंकीर्णताप्रसक्तेः स्वस्वरूपाऽव्यवस्थितेः खपुष्पवद् असत्त्वमेव स्यात् इत्यादिदूषणमसकृत् प्रतिपादितम् । हेतु-दृष्टान्तदोषाष्टा पूर्ववद् अत्रापि वाच्याः ।
चतुर्थपादं तु गाथायाः केचिद् अन्यथा पठन्ति-“छस्सम्मत्तस्स ठाणाई" ति । अत्र तु पाठे इतरधर्माऽजहद्वृत्त्या प्रवर्तमाना एते षट् पक्षाः सम्यक्त्वस्य आधारतां प्रतिपद्यन्ते इति व्याख्येयम् । न च स्यादस्ति आत्मा’ ‘स्यान्नित्यः' इत्यादिप्रतिज्ञावाक्यम् अध्यक्षादिना प्रमाणेन बाध्यते स्व-परभावाभावोभयात्मकभावावभासकाध्यक्षादिप्रमाणव्यतिरेकेण अन्यथाभूतस्य अध्यक्षादेरप्रतीतेः तेन अनुमानाऽभ्युपगम-स्ववचन-लोकव्यवहारविरोधोऽपि न प्रतिज्ञायाः अध्यक्षादिप्रमाणावसेये सदसत्तात्मके वस्तुनि कस्यचिद् विरोधस्यासंभवात् । न चाप्रसिद्धविशेषणः पक्षः लौकिक-परीक्षकैस्तथाभूतविशेषणस्याविप्रतिपत्त्या सर्वत्र प्रतीतेः अन्यथा विशेषणव्यवहारस्य उच्छेदप्रसङ्गात् अन्यथाभूतस्य तस्य कचिदपि असंभवात् तथाभूतविशेषणात्मकस्य धर्मिणः सर्वत्र प्रतीते प्रसिद्धविशेष्यतादोषः । नापि अप्रसिद्धोभयता दूषणम् तथाभूतद्वयव्यतिरेकेणान्यस्यासत्त्वतः प्रमाणाविषयत्वात् । हेतुरपि नाऽप्रसिद्धः तत्र तस्य सत्त्वप्रतीतेः, विपक्षे सत्त्वासंभवाद् नापि विरुद्धः अनैकान्तिकताऽपि अत एवायुक्ता ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org