________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५४
२१९
धर्मलक्षणस्य विशेषणस्य तदाधारभूतस्य च विशेष्यस्य अप्रसिद्धेः अप्रसिद्धविशेषणविशेष्योभयदोषैर्दुष्टप्टा पक्षः । 'आत्मा' इति वचनेन तत्सत्ताभिधानम् ‘नास्ति' इत्यनेन च तत्प्रतिषेधाभिधानमिति पदयोः प्रतिज्ञावाक्ये व्याघातः लोकविरोधष्टा तथाभूतविशेषणविशिष्टतया धर्मिणो लोकेन व्यवह्रियमाणत्वात् स्ववचनविरोधष्टा तत्प्रतिपादकवचनस्य इतरधर्मसापेक्षतया प्रवृत्तेः । हेतुरपि इतरनिरपेक्षैकधर्मरूपोऽसिद्धः तथाभूतस्य तस्य क्वचिद् अनुपलब्धेः सर्वत्र तद्विपरीत एव भावाद् विरुद्धष्टा । दृष्टान्तप्टा साध्यसाधनधर्मविकल: तथाभूतसाध्यसाधनधर्माधिकरणतया कस्यचिद् धर्मिणः अप्रसिद्धेः । तन्न प्रथमः पक्षः । नापि द्वितीयः स्वाभ्युपगमविरोधप्रसङ्गात् साधनवैफल्यापत्तेष्टा तथाभूतस्य अनेकान्तरूपतया अस्माभिरप्यभ्युपगमात् । तस्माद् व्यवस्थितमेतद् एकान्तरूपतया षडपि एतानि मिथ्यात्वस्य स्थानानि ।।५४ ।।
-: धर्मपरीक्षा :नन्वभव्यानामन्तस्तत्त्वशून्यानामनाभोगः सार्वदिको भवतु, आभिग्रहिकं तु कथं स्याद् ? इति भ्रान्तस्याशङ्कामपाकर्तुमाभिग्रहिकभेदानुपदर्शयति
णत्थि ण णिञ्चो ण कुणइ कयं ण वेणइ णत्थि णिव्वाणं ।
णत्थि य मोक्खोवाओ आभिग्गहिअस्स छ विअप्पा ।। ९ ।। . णित्थित्ति । नास्त्येवात्मा, न नित्य आत्मा, न कर्ता, कृतं न वेदयति, नास्ति निर्वाणम, नास्ति मोक्षोपाय इत्याभिग्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसम्मत्यादि ग्रन्थप्रसिद्धाः षड्विकल्पाः, ते च सदा नास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसत्त्वे संशय इति भावः ।
-: गुरतत्त्वविनिश्चये :
उ. ४, गा. २ दसचउदसविहबज्झब्भंतरगंथा उ जे मुणी मुक्का ।
ते णिग्गंथा तेसिं, पंचण्ह परूवणं वुच्छं ।।२।। मिथ्यात्वं-नास्ति १ न नित्यः २ न करोति ३ कृतं न वेदयति ४ नास्ति निर्वाणं ५ नास्ति निर्वाणोपायः ६ इति षड्भिः स्थानैस्तत्त्वार्थाश्रद्धानम्, यदाह सम्मतिकारः
“णत्थि ण णिो ण कुणइ, कयं ण वेएइ णत्थि णेव्वाणं । णत्थि य मोक्खोवाओ, छ म्मिच्छत्तस्स ठाणाइं ।। १ ।।"
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org