________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा - ५४
[ आत्मन्येकान्तरूपस्य नास्तित्वादिवादषट्कस्य मिथ्यारूपत्वकथनम् ] यथैते कालाद्येकान्ता मिथ्यात्वमनुभवन्ति स्याद्वादोपग्रहात् तु त एव सम्यक्त्वं प्रतिपद्यन्ते तथा आत्माऽपि एकान्तनित्याऽनित्यत्वादिधर्माध्यासितो मिथ्यात्वम् अनेकान्तरूपतया तु अभ्युपगम्यमानः सम्यक्त्वं प्रतिपद्यत इत्याह
२१८
णत्थि ण णो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ।। ५४ ।।
नास्ति आत्मा एकान्तत इति बृहस्पतिमतानुसारी । अस्ति आत्मा किन्तु प्रतिक्षणविशरारुतया चित्तसंततेर्न नित्य इति बौद्धाः । अस्ति आत्मा नित्यो भोक्ता न तु करोति इति सांख्याः त एव प्राहुः कर्ता असौ न भोक्ता प्रकृतिवत् कर्तुर्भोक्तृत्वानुपपत्तेः । यद्वा येन कृतं कर्म नासौ तद् भुक्ते क्षणिकत्वाद् चित्तसंततेः इति बौद्धाः क्षणिकत्वात् चित्तसंततेः कृतं न वेदयते इति बौद्ध एव आह । कर्ता भोक्ता च आत्मा किन्तु न मुच्यतेऽसौ चेतनत्वात् अभव्यवत्-रागादीनामात्मस्वरूपाऽव्यतिरेकात् तदक्षये तेषामपि अक्षयात् इति याज्ञिकः निर्हेतुक एवासौ मुच्यते तत्स्वभावताव्यतिरेकेण अपरस्य तत्र उपायस्य अभावात् इि मण्डली प्राह । एतानि षड् मिथ्यात्वस्य स्थानानि षण्णामप्येषां पक्षाणां मिथ्यात्वाधारतया व्यवस्थितेः ।
तथाहि - एतानि नास्तित्वादिविशेषणानि साध्यधर्मिविशेषणतया उपादीयमानानि किं प्रतिपक्षव्युदासेन उपादीयन्ते, आहोस्वित् कथंचित् तत्संग्रहेण इति कल्पनाद्वयम् । प्रथमपक्षे अध्यक्षविरोधः स्वसंवेदनाध्यक्षतष्टौतन्यस्य आत्मरूपस्य प्रतीतेः कथंचित् तस्य परिणामनित्यताप्रतीतेष्टा शरीरादिव्यापारतः कर्तृत्वोपलब्धेष्टा स्वव्यापारनिर्विर्तितभक्तसूपादिभोक्तृसंवेदनाच्च पुद्गलक्षणविलक्षणतया रागादिविविक्ततया च शमसुखरसावस्थायां कथंचित् तस्य उपलब्धेटा स्वोत्कर्षतरतमादिभावतो रागाद्यपचयतरतमभावविधायिसम्यग्ज्ञानदर्शनादेरुपलम्भाच्च । अनुमानतोऽपि विरोधः तथाभूतज्ञानकार्यान्यथानुपपत्तितः चैतन्यलक्षणस्य आत्मनः सिद्धिः घटादिवद् रूपादिगुणतः ज्ञानस्वरूपगुणोपलम्भात् कथंचित् तदभिन्नस्य आत्मलक्षणस्य गुणिनः सिद्धिरिति कथं नानुमानविरोधः ? इतरधर्मनिरपेक्ष
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org