Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 271
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-६३ [ न शासनभक्तिमात्रेण नाप्यांशिकज्ञानमात्रेणानेकान्तप्ररूपणाकुशल इति कथनम् ] अथ न ते आगमप्रत्यनीकाः तद्भक्तत्वात् तद्देशपरिज्ञानवन्तष्टोति कथं तद् विनाशयन्तीति ? अत्राह २२६ हु सासणभत्तीत्तएण सिद्धंतजाणओ होइ । ण विजाणओ वि णियमा पण्णवणाणिच्छिओ णामं ।। ६३॥ न च शासनभक्तिमात्रेणैव सिद्धान्तज्ञाता भवति न च तदज्ञानवान् भावसम्यक्त्ववान् भवति अज्ञातस्य अर्थस्य विशिष्टरुचिविषयत्वानुपपत्तेस्तद्भक्तिमात्रेण श्रद्धानुसारितया द्रव्यसम्यक्त्वम् । मार्गानुसार्यवबोधमात्रानुषक्तरुचिस्वभावं तु सदपि न भावसम्यक्त्वसाध्यफलनिर्वर्तकम् भावसम्यक्त्वनिमित्तत्वेनैव तस्य द्रव्यसम्यक्त्वरूपत्वोपपत्तेः । न च जीवादितत्त्वैकदेशज्ञाताऽपि नियमतोऽनेकान्तात्मकवस्तुस्वरूपप्रज्ञापनायां निष्टिशतो भवति एकदेशज्ञानवतः सकलधर्मात्मकवस्तुज्ञानविकलतया सम्यक् तत्प्ररूपणाऽसंभवात् । तथाहिसर्वज्ञो यथावस्थितैकदेशज्ञो जीवादिसकलतत्त्वज्ञता तु आगमविदः सामान्यरूपतया अभिधीयते “मति श्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ” [ तत्त्वार्थ० १ २७] इति वचनात् । [S.T.P. 732] तदेवमेकान्तवादिप्रकल्पितस्य प्रमाण- प्रमेयादेः सर्वस्य अघटमानत्वात् तच्छासनं दृष्टवत् अदृष्टार्थेऽपि विसंवादित्वाद् अप्रमाणम् । तत्प्रतिपक्षभूतं च यथोक्तजीवादितत्त्वप्रकाशकं सर्वत्र दृष्टार्थे अव्यभिचारित्वात् अदृष्टार्थेऽपि सहेतुके हेयोपादेयस्वरूपे बन्ध-मोक्षलक्षणे वस्तुतत्त्वे प्रमाणमिति स्थितम् । अतः पूर्वापरैकवाक्यतया सकलानन्तधर्मात्मकजीवादितत्त्वप्रतिपादकसूत्रसंदर्भस्य नय- प्रमाणद्वारेण प्रवृत्तस्य तात्पर्यार्थज्ञाता सिद्धान्तज्ञाता न पुनरपरिहृतविरोधतदेकदेशज्ञाता । न चैकदेशज्ञः स्याद्वादप्ररूपणायाः सम्यक् समर्थ इति व्यवस्थितम् ।।६३ ।। [S.T.P. 745] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314