Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 244
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-४५ तथाहि-पृथिव्यादेर्मनुष्यपर्यन्तस्य षड्विधजीवनिकायस्य जीवत्वमागमेन अनुमानादिना च । प्रमाणेन सिद्धं तथैव प्रतिपादयन् स्वसमयप्रज्ञापकः, अन्यथा तद्विराधकः । यतः प्रव्यक्तचेतने त्रसनिकाये चैतन्यलक्षणं जीवत्वं स्वसंवेदनाध्यक्षतः स्वात्मनि प्रतीयते, परत्र त्वपरेणानुमानतः । वनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावरेषु अनुमानतप्टौतन्यप्रतिपत्तिः । तथाहिवनस्पतयष्टोतनाः, वृक्षायुर्वेदाभिहितप्रतिनियतकालायुष्कविशिष्टौषधप्रयोगसंपादितवृद्धिहानि-क्षत-भग्नसंरोहण-प्रतिनियतवृद्धिषड्भावविकारोत्पादनाशावस्थानियतविशिष्टशरीरस्निग्धत्व-रूक्षत्व-विशिष्टदौहृद-बालकुमार-वृद्धावस्था प्रतिनियतविशिष्टरसवीर्यविपाक प्रतिनियतप्रदेशाहारग्रहणादिमत्त्वान्यथानुपपत्तेः, विशिष्टस्त्रीशरीरवत् इत्याद्यनुमानं भाष्यकृत्प्रभृतिभिर्विस्तरतः प्रतिपादितं तचैतन्यप्रसादकमित्यनुमानतस्तेषां चैतन्यमानं सिध्यति । साधारण प्रत्येकशरीरत्वादिकस्तु भेदः“गूढसिर-संधि-पव्वं समभंगमहीरगं च छिण्णरुहं । साहारणं सरीरं तब्विवरीयं च पत्तेयं ।।” [जीवविचा० गा० १२] इत्याद्यागमप्रतिपाद्य एव । जीवलक्षणव्यतिरिक्तलक्षणास्त्वजीवा धर्माऽधर्माऽऽकाश-काल-पुद्गलभेदेन पञ्चविधाः । तत्र पुद्गलास्तिकायव्यतिरिक्तानां स्वतो मूर्तिमद्र्व्यसम्बन्धमन्तरेणात्मद्रव्यवदमूर्तत्वाद् अनुमानप्रत्ययावसेयता । तथाहि-गति-स्थित्यवगाहलक्षणं पुद्गलास्तिकायादिकार्यं विशिष्टकारणप्रभवम्, विशिष्टकार्यत्वात्, शाल्यकुरादिकार्यवत्, यष्टाासौ कारणविशेषः स धर्माऽधर्माऽऽकाशलक्षणो यथासंख्यमवसेयः । कालस्तु विशिष्टपरापरप्रत्ययादिलिङ्गानुमेयः । पुद्गलस्तिकायस्तु प्रत्यक्षाऽनुमानलक्षणप्रमाणद्वयगम्यः । यस्तेषां धर्मादीनामसंख्येयप्रदेशात्मकत्वादिको विशेषस्तत्प्रदेशानां च सूक्ष्म-सूक्ष्मतरत्वादिको विभागः स “कालो य होइ सुहुमो” [ ] इत्याद्यागमप्रतिपाद्य एव, नागमनिरपेक्षयुक्यवसेयः । एवमाश्रवादिष्वपि तत्त्वेषु युक्तयाऽऽगमगम्येषु युक्तिगम्यमंशं युक्तित एव, आगमगम्यं तु केवलागमत एव प्रतिपादयन् स्वसमयप्रज्ञापकः, इतरस्तु तद्विराधक इति प्रज्ञापकलक्षणमवगन्तव्यम् ।।४५ ।। ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314