Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 264
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-५४ २१९ धर्मलक्षणस्य विशेषणस्य तदाधारभूतस्य च विशेष्यस्य अप्रसिद्धेः अप्रसिद्धविशेषणविशेष्योभयदोषैर्दुष्टप्टा पक्षः । 'आत्मा' इति वचनेन तत्सत्ताभिधानम् ‘नास्ति' इत्यनेन च तत्प्रतिषेधाभिधानमिति पदयोः प्रतिज्ञावाक्ये व्याघातः लोकविरोधष्टा तथाभूतविशेषणविशिष्टतया धर्मिणो लोकेन व्यवह्रियमाणत्वात् स्ववचनविरोधष्टा तत्प्रतिपादकवचनस्य इतरधर्मसापेक्षतया प्रवृत्तेः । हेतुरपि इतरनिरपेक्षैकधर्मरूपोऽसिद्धः तथाभूतस्य तस्य क्वचिद् अनुपलब्धेः सर्वत्र तद्विपरीत एव भावाद् विरुद्धष्टा । दृष्टान्तप्टा साध्यसाधनधर्मविकल: तथाभूतसाध्यसाधनधर्माधिकरणतया कस्यचिद् धर्मिणः अप्रसिद्धेः । तन्न प्रथमः पक्षः । नापि द्वितीयः स्वाभ्युपगमविरोधप्रसङ्गात् साधनवैफल्यापत्तेष्टा तथाभूतस्य अनेकान्तरूपतया अस्माभिरप्यभ्युपगमात् । तस्माद् व्यवस्थितमेतद् एकान्तरूपतया षडपि एतानि मिथ्यात्वस्य स्थानानि ।।५४ ।। -: धर्मपरीक्षा :नन्वभव्यानामन्तस्तत्त्वशून्यानामनाभोगः सार्वदिको भवतु, आभिग्रहिकं तु कथं स्याद् ? इति भ्रान्तस्याशङ्कामपाकर्तुमाभिग्रहिकभेदानुपदर्शयति णत्थि ण णिञ्चो ण कुणइ कयं ण वेणइ णत्थि णिव्वाणं । णत्थि य मोक्खोवाओ आभिग्गहिअस्स छ विअप्पा ।। ९ ।। . णित्थित्ति । नास्त्येवात्मा, न नित्य आत्मा, न कर्ता, कृतं न वेदयति, नास्ति निर्वाणम, नास्ति मोक्षोपाय इत्याभिग्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसम्मत्यादि ग्रन्थप्रसिद्धाः षड्विकल्पाः, ते च सदा नास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसत्त्वे संशय इति भावः । -: गुरतत्त्वविनिश्चये : उ. ४, गा. २ दसचउदसविहबज्झब्भंतरगंथा उ जे मुणी मुक्का । ते णिग्गंथा तेसिं, पंचण्ह परूवणं वुच्छं ।।२।। मिथ्यात्वं-नास्ति १ न नित्यः २ न करोति ३ कृतं न वेदयति ४ नास्ति निर्वाणं ५ नास्ति निर्वाणोपायः ६ इति षड्भिः स्थानैस्तत्त्वार्थाश्रद्धानम्, यदाह सम्मतिकारः “णत्थि ण णिो ण कुणइ, कयं ण वेएइ णत्थि णेव्वाणं । णत्थि य मोक्खोवाओ, छ म्मिच्छत्तस्स ठाणाइं ।। १ ।।" Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314