________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४५
तथाहि-पृथिव्यादेर्मनुष्यपर्यन्तस्य षड्विधजीवनिकायस्य जीवत्वमागमेन अनुमानादिना च । प्रमाणेन सिद्धं तथैव प्रतिपादयन् स्वसमयप्रज्ञापकः, अन्यथा तद्विराधकः । यतः प्रव्यक्तचेतने त्रसनिकाये चैतन्यलक्षणं जीवत्वं स्वसंवेदनाध्यक्षतः स्वात्मनि प्रतीयते, परत्र त्वपरेणानुमानतः । वनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावरेषु अनुमानतप्टौतन्यप्रतिपत्तिः । तथाहिवनस्पतयष्टोतनाः, वृक्षायुर्वेदाभिहितप्रतिनियतकालायुष्कविशिष्टौषधप्रयोगसंपादितवृद्धिहानि-क्षत-भग्नसंरोहण-प्रतिनियतवृद्धिषड्भावविकारोत्पादनाशावस्थानियतविशिष्टशरीरस्निग्धत्व-रूक्षत्व-विशिष्टदौहृद-बालकुमार-वृद्धावस्था प्रतिनियतविशिष्टरसवीर्यविपाक प्रतिनियतप्रदेशाहारग्रहणादिमत्त्वान्यथानुपपत्तेः, विशिष्टस्त्रीशरीरवत् इत्याद्यनुमानं भाष्यकृत्प्रभृतिभिर्विस्तरतः प्रतिपादितं तचैतन्यप्रसादकमित्यनुमानतस्तेषां चैतन्यमानं सिध्यति । साधारण प्रत्येकशरीरत्वादिकस्तु भेदः“गूढसिर-संधि-पव्वं समभंगमहीरगं च छिण्णरुहं । साहारणं सरीरं तब्विवरीयं च पत्तेयं ।।”
[जीवविचा० गा० १२] इत्याद्यागमप्रतिपाद्य एव ।
जीवलक्षणव्यतिरिक्तलक्षणास्त्वजीवा धर्माऽधर्माऽऽकाश-काल-पुद्गलभेदेन पञ्चविधाः । तत्र पुद्गलास्तिकायव्यतिरिक्तानां स्वतो मूर्तिमद्र्व्यसम्बन्धमन्तरेणात्मद्रव्यवदमूर्तत्वाद् अनुमानप्रत्ययावसेयता । तथाहि-गति-स्थित्यवगाहलक्षणं पुद्गलास्तिकायादिकार्यं विशिष्टकारणप्रभवम्, विशिष्टकार्यत्वात्, शाल्यकुरादिकार्यवत्, यष्टाासौ कारणविशेषः स धर्माऽधर्माऽऽकाशलक्षणो यथासंख्यमवसेयः । कालस्तु विशिष्टपरापरप्रत्ययादिलिङ्गानुमेयः । पुद्गलस्तिकायस्तु प्रत्यक्षाऽनुमानलक्षणप्रमाणद्वयगम्यः । यस्तेषां धर्मादीनामसंख्येयप्रदेशात्मकत्वादिको विशेषस्तत्प्रदेशानां च सूक्ष्म-सूक्ष्मतरत्वादिको विभागः स “कालो य होइ सुहुमो” [ ] इत्याद्यागमप्रतिपाद्य एव, नागमनिरपेक्षयुक्यवसेयः । एवमाश्रवादिष्वपि तत्त्वेषु युक्तयाऽऽगमगम्येषु युक्तिगम्यमंशं युक्तित एव, आगमगम्यं तु केवलागमत एव प्रतिपादयन् स्वसमयप्रज्ञापकः, इतरस्तु तद्विराधक इति प्रज्ञापकलक्षणमवगन्तव्यम् ।।४५ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org