________________
२००
संमतितर्कप्रकरणे, काण्ड - ३, गाथा- ४५
-: पञ्चवस्तु प्रकरणम् :
अह वक्खाणेअव्वं जहा जहा तस्स अवगमो होइ । आगमि अमागमेणं, जुत्तीगम्मं तुं जुत्तीए । । ९९१ ।।
अथ व्याख्यानयितव्यं किमपि श्रुतं, कथमित्याह- यथा यथा श्रोतुः अवगमो भवति, परिज्ञेत्यर्थः, तत्रापि स्थितिमाह-आगमिकं वस्तु आगमेन, यथा 'स्वर्गेऽप्सरसः, उत्तराः कुरव' इत्यादि, युक्तिगम्यं पुनर्युक्त्यैव यथा देहमात्रपरिणाम्यात्मेत्यादीति गाथार्थः । । ९९१ ।
किमित्येतदेवमित्याह
तथा
जम्हा उ दोहवि इहं भणिअं पन्नवगकहणभावाणं । लक्खणमणघमईहिं, पुव्वायरिएहिं आगमओ ।।९९२ ।।
यस्मात् द्वयोरपि अत्र प्रवचने भणितं प्रज्ञापककथनभावयोः, पदार्थयोरित्यर्थः, लक्षणं स्वरूपं, कैरित्याह- अनघमतिभिः अवदातबुद्धिभिः पूर्वाचार्यैः, कुत इत्याह- आगमात्, न तु स्वमनीषिकयैवेति गाथार्थः ।। ९९२ ।।
किंभूतं तदित्याह
जो उवायक्खम्मि हेउओ आगमे अ आगमिओ ।
सो समयपण्णवओ, सिद्धंतविराहओ अन्नो ।। ९९३ ।।
यो हेतुवादपक्षे युक्तिगम्ये वस्तुनि हेतुको हेतुना चरति, आगमे चागमिको, न तत्रापि मतिमोहनीं युक्तिमाह, स एवंभूतः स्वसमयप्रज्ञापको भगवदनुमतः,
सिद्धान्तविराधकोऽन्यः,
तल्लाघवापादनादिति गाथार्थः । । ९९३ । ।
आगो अत्थो, आणाए चेव सो कहेयव्वो ।
दिट्ठति दिट्टंता, कहणविहि विराहणा इहरा । । ९९४ ।।
आज्ञाग्राह्योऽर्थः आगमग्राह्यः आज्ञयैवासौ कथयितव्यः, आगमेनैवेत्यर्थः दान्तिको दृष्टान्ताद् दृष्टान्तेन, कथनविधिरेष सूत्रार्थे, विराधनेतरथा कथनस्येति गाथार्थ: ।।९९४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org