________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४५
२०१
-: उपदेशरहस्यम् :जो हेउवायपक्खंमि हेउओ आगमे य आगमिओ ।
सो ससमयपण्णवओ सिद्धंतविराहगो अण्णो ।। १५१ ।। [३/४५ सम्म०] यः कष्टिाद्धेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि हेतुको युक्तिप्रणयनप्रवीणः, आगमे च देवलोकपृथ्वीसंख्यादावर्थे आगममात्रगम्ये आगमिकः आगममात्रप्रज्ञापनाप्रवीणः स स्वसमयप्रज्ञापक उच्यते । व्यवच्छेद्यमाह-सिद्धान्तविराधको जिनवचनानुयोगविनाशकः अन्यः प्रागुक्तविशेषणविकल: साधुः । तथाहि युक्तिमार्गसहेष्वप्यागमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावान्न श्रोतृणां दृढा प्रतीतिः कर्तुं पार्यते, आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुटुंकयन्नसंपादितनियतार्थप्रतीतिर्विफलारम्भत्वेन स्वयमेव वैलक्ष्यं भजते, श्रोतुष्टानादेयवचनो भवतीति न विपरीतव्यवहारिणा तेन सम्यसिद्धान्त आराधितो भवति ।। १५१ ।।
___-: तत्त्वार्थश्लोकवार्तिके :
__ अ. १ श्रद्धानुसारिणोऽपि ह्यागमादेव प्रवर्तयितुं शक्या, न यथा कथंचित् प्रवचनोपदिष्टतत्त्वे श्रद्धामनुसरतां श्रद्धानुसारित्वादन्यादृशामतिमूढमनस्कत्वात् तत्त्वार्थश्रवणेऽनधिकृतत्वादतिविपर्यस्तवत् तेषां तदनुरूपोपदेशयोग्यत्वात् सिद्धमातृकोपदेशयोग्यदारकवत् । प्रेक्षावन्तः पुनरागमादनुमानाच्च प्रवर्तमानास्तत्त्वं लभन्ते, न केवलादनुमानात्प्रत्यक्षादितस्तेषामप्रवृत्तिप्रसंगात् । नापि केवलादागमादेव विरुद्धार्थमतेभ्योपि प्रवर्तमानानां प्रेक्षावत्त्वप्रसक्तेः । तदुक्तम् -
“सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि ।।” इति । तस्मादाप्ते वक्तरि संप्रदायाव्यवच्छेदेन निष्टिाते तद्वाक्यात्प्रवर्तनमागमादेव । वक्तर्यनाप्ते तु यत्तद्वाक्यात्प्रवर्तनं तदनुमानादिति विभागः साधीयान् । तदप्युक्तम्"वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितम् ।।" न चैवं प्रमाणसंप्लववादिविरोधः, क्वचिदुभाभ्यामागमानुमानाभ्यां प्रवर्तनस्येष्टत्वात् । प्रवचनस्याहेतुहेतुमदात्मकत्वात् । स्वसमयप्रज्ञापकत्वस्य तत्परिज्ञाननिबन्धनत्वादपरिज्ञाताहेतुवादागमस्य सिद्धांतविरोधकत्वात् । तथा चाभ्यधायि - [सम्मतौ]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org