________________
२०२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४६
"जो हेदुवादपखम्मि हेदुओ आगमम्मि आगमओ।
सो ससमयपण्णवओ सिद्धंतविराहओ अण्णोति ।। ३/४५ ।।" तत्रागममूलमिदमादिवाक्यं परापरगुरुप्रवाहमाध्याय प्रवचनस्य प्रवर्तकं तत्त्वार्थ लोकवार्तिकं प्रवक्ष्यामीति वचनस्यागमपूर्वकागमार्थत्वात् ।
-: आचारागसूत्र :
पू.आ.श्री शीलाङ्काचार्यजीकृतटीकायाम् अ. २, उ. ६ स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते–'कोऽयं' इत्यादि, यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषो ? मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयम्, एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यत:-क्षेत्रतः किमिदं क्षेत्रं तञ्चनिकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितम्, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथा यथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति, उक्तं च- [सम्मतौ]
“जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ ।
सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ।।३/४५ ।।" [हेतुसाध्यमर्थं हेतोरेव इतरं चागमत एव साधयतो नयवादः शुद्धो नान्यस्य इति कथनम्]
यो हेतुसाध्यमर्थं हेतुना साधयति आगमसिद्धं च आगमेन, तस्य नयवादः परिशुद्धः नान्यस्येत्येतदेवाऽऽह-परिसुद्ध' इत्यादि ।
यद्वा वस्तुधर्मप्रतिपादकोऽहेतु-हेतुवादप्रभेद आगमो वाक्य-नयरूपः परिशुद्धतरभेदेन द्विरूपतां प्रतिपद्यते इत्याह
परिसुद्धो नयवाओ आगममेत्तत्थसाहओ होइ ।
सो चेव दुण्णिगिण्णो दोण्णि वि पक्खे विधम्मेइ ।।४६।। परि समन्तात् शुद्धो नयवादः यदा विवक्षिताऽविवक्षितानन्तरूपात्मकवस्तुप्रतिपादकं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org: