________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४६-४७
२०३
नयवाक्यं प्रवर्तते ‘स्यान्नित्यम्' इत्यादिकं तदा भवति, प्रमाणपरिशुद्धागमार्थमात्रस्य न्यूनाधिकव्यवच्छेदेन प्रतिपादनात् अधिकस्याऽसंभवेन न्यूनस्य च नयानामसर्वार्थत्वप्रसङ्गतोऽर्थस्य परिशुद्धागमविषयत्वायोगात् । स एव नयवादः इतररूपनिरपेक्षैकरूपप्रतिपादकत्वेन यदा दुनिक्षिप्तः प्रमाणविरुद्धार्थप्रतिपादकत्वेनाऽवतारितस्तदा द्वितीयधर्मनिरपेक्षस्य प्रतिपाद्यधर्मस्याऽप्यभावतोऽप्रतिपादनाद् अपरिशुद्धो भवति, प्रमाणविरुद्धस्य तथा तदर्थस्य व्यवस्थायितुमशक्यत्वात् ।।४६ ।।
[ अपरिशुद्धनयवादरूपपरसमयानां संख्यानम् ] अपरिशुद्धप्टा नयवादः परसमयः स कियद्भेदो भवति ? इत्याह
जावइया वयणपहा तावइया चेव होंति णयवाया ।
जावइया णयवाया तावइया चेव परसमया ।।४७।। अनेकान्तात्मकस्य वस्तुन एकदेशस्य यद् अन्यनिरपेक्षस्याऽवधारणम् अपरिशुद्धो नयः, तावन्मात्रार्थस्य वाचकानां शब्दानां यावन्तो मार्गाः हेतवो नयाः तावन्त एव भवन्ति नयवादास्तत्प्रतिपादकाः शब्दाः । यावन्तो नयवादास्तावन्त एव परसमया भवन्ति स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानां परिमितिर्न विद्यते । ननु यद्यपरिमिताः परसमयाः कथं तन्निबन्धनभूतानां नयानां संख्यानियमः “नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्दसमभिरूढैवंभूता नयाः” [तत्त्वार्थ, सू० १-३३] इति श्रूयते ? न; स्थूलतस्तच्छुतेः, अवान्तरभेदेन तु तेषामपरिमितत्वमेव स्वकल्पनाशिल्पिघटितविकल्पनामनियतत्वात् तदुत्थप्रवादानामपि तत्संख्यापरिमाणत्वात् ।।४७।।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा.६६ न चेयमतन्त्रसिद्धेत्याह
मतिज्ञानविकल्पत्वान्न चानिष्टिरियं यतः । एतप्टलात्ततः सिद्धं नित्यानित्यादि वस्तु नः ।। ६६ ।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org