________________
२०४
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४७
यतो मतिज्ञानविकल्पत्वाद् न चेयमनिष्टिः प्रत्यभिज्ञाङ्गीकारो नापसिद्धान्त इत्यर्थः, वासनाधारणाफलत्वेन तदुपगमात्, तत एतष्टलात् प्रत्यभिज्ञान्यथानुपपत्तेः नः अस्माकं नित्यानित्यादि वस्तु सिद्धम्, आदिना सदसदादिग्रहः । तदेवं सिद्धो वस्तुयाथात्म्यपरिच्छेदप्रवणः स्याद्वादः । एतदेकदेशालम्बना एव परस्परनिरपेक्षाः प्रवर्तन्तेऽपरिमिताः परसमयाः । तदुक्तम्
जावइआ वयणपहा तावइआ चेव हुंति णयवाया ।
जावइआ णयवाया तावइआ चेव परसमया ।। [३/४७] ।। इति । अस्यार्थः-यावन्तो वचनपथाः वक्तृविकल्पहेतवोऽध्यवसायविशेषाः, तावन्तो नयवादाः तज्जनितवक्तृविकल्पाः शब्दात्मकाः, सामान्यतो नैगमादिसप्तभेदोपग्रहेऽपि प्रतिव्यक्ति तदानन्त्यात् । यावन्तष्टा नयवादास्तावन्त एव परसमयाः, निरपेक्षवक्तृविकल्पमात्रकल्पितत्वात् तेषाम् ।।
___ -: विशेषावश्यकभाष्यम् :अथवा, किमनेन स्तोकभेददर्शनेन ?, उत्कृष्टतोऽसंख्याता अपि नया भवन्ति । तेऽपि चापिशब्दाद् द्रष्टव्या इति दर्शयन्नाह
जावन्तो वयणपहा तावन्तो वा नया विसद्दाओ ।
ते चेव य परसमया सम्मत्तं समुदिया सव्वे ।। २२६५ ।। वा अथवा, यावन्तो वचनपथा वचनमार्गा वचनप्रकारास्तेऽपीहापिशब्दात संगृहीताः । य एव च नयास्त एव च सावधारणाः सर्वेऽपि परसमयास्तीर्थिकसिद्धान्ताः, समुदितास्तु निरवधारणाः स्याच्छब्दलाञ्छिताः सर्वेऽपि नयाः सम्यक्त्वं जिनशासनभावं प्रतिपद्यन्त इत्यर्थः । आह च स्तुतिकारः
उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विोदधिः ।। इति ।।२२६५ । ।
-: षड्दर्शनसमुच्चये :
गुणरत्नसूरीकृतवृत्तौ का. १, गा. १ नन्वत्र सर्वदर्शनवाच्योऽथों वक्तुं प्रकान्तः, स च संख्यातिक्रान्तः, तत्कथं स्वल्पीयसानेन प्रस्तुतशास्त्रेण सोऽभिधातुं शक्यः, जैनादन्यदर्शनानां परसमयापरनामधेयानामसंख्यातत्वात् । तदुक्तं सन्मतिसूत्रे श्रीसिद्धसेनदिवाकरेण
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org