________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा- ४४-४५
वादागमावगते वा धर्मिणि भव्याऽभव्यस्वरूपे तद्वि ( तदवि) परीतनिर्णयफलो हेतुवाद: प्रवर्तते । योऽयमागमे भव्यादिरभिहितः स तथैव यथोक्तहेतुसद्भावात् इत्याह
,
१९८
भविओ सम्मद्दंसण - णाण- चरित्तपडिवत्तिसंपन्नो । णियमा दुक्खंतकडो त्ति लक्खणं हेडवायस्स ।।४४।।
भव्योऽयम्, सम्यग्दर्शन- ज्ञान-चारित्रप्रतिपत्तिसंपूर्णत्वात् उक्तपुरुषवत् । तत्परिपूर्णत्वादेव नियमात् संसारदुःखान्तं करिष्यति कर्मव्याधेरात्यन्तिकं विनाशमनुभविष्यति, तन्निबन्धनमिथ्यात्वादिप्रतिपक्षाभ्याससात्मीभावात्, व्याधिनिदानप्रतिकूलाचरणप्रवृत्ततथाविधातुरवत् । यः पुनर्न तत्प्रतिपक्षाभ्याससात्म्यवान् नासौ दुःखान्तकृद् भविष्यति तन्निदानानुष्ठानप्रवृत्ततथाविधातुरवत् इति हेतुवादस्य लक्षणम् । हेतुवादष्टा प्रायो दृष्टिवादस्तस्य द्रव्यानुयोगत्वात्, “सम्यग्दर्शन - ज्ञान - चारित्राणि मोक्षमार्गः” [ तत्त्वार्थसू० १-१] इत्यादेरनुमानादिगम्यस्यार्थस्य तत्र प्रतिपादनात् । यथा चात्रानुमानादिगम्यता तथा गन्धहस्तिप्रभृतिभिर्विक्रान्तमिति नेह प्रदर्श्यते ग्रन्थविस्तरभयात् । ।४४ । ।
[ जीवादितत्त्वं कथं प्रतिपादयन् सिद्धान्तस्य आराधकः कथं वा प्रतिपादयन् तस्य विराधक इत्यभिधानम् ]
“जीवाऽजीवाऽऽश्रव-बन्ध-संवर- निर्जरा-मोक्षास्तत्त्वम्” [तत्त्वार्थसू० १-४] इत्युभयवादागमप्रतिपाद्यान् भावांस्तथैवाऽसंकीर्णरूपान् प्रतिपादयन् सैद्धान्तिकः पुरुषः इतरस्तु तद्विराधक इत्याह
जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अन्नो ।। ४५ ।।
यो हेतुवादागमविषयमर्थं हेतुवादागमेन, तद्विपरीतागमविषयं चार्थमागममात्रेण प्रदर्शयति वक्ता स स्वसिद्धान्तस्य द्वादशाङ्गस्य प्रतिपादनकुशलः, अन्यथा प्रतिपादयंष्टा तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचस्यनास्थादिदोषमुत्पादयन्-सिद्धान्तविराधको भवति सर्वज्ञप्रणीतागमस्य निस्सारताप्रदर्शनात् तत्प्रत्यनीको भवतीति यावत् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org