________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४४
१९७
या उपपत्तयस्ता हेतुवादसिद्धत्वमुपपादयन्ति, श्रुतमात्रेण ज्ञातस्याज्ञातप्रायत्वात्, ताप्टाोपपत्तयः श्रुतोपयोगानन्यत्वान्न श्रुतत्वव्याहन्त्र्य इत्याधुपपादितं ज्ञानबिन्दौ अस्माभिः । अत एव पदार्थप्रतिपत्त्यागमात् निष्टिातमप्यर्थं सिसाधयिषाधीनपक्षतयाऽनुमिन्वतेऽनुमानरसिकाः, मननसाध्यश्रद्धाविशेषस्येत्थमेवोपपत्तेः, अत एव नियमतः षट्कायश्रद्धानेऽपि जिनवनचरुचिमत्त्वाद् द्रव्यतः सम्यग्दृष्टित्वम्, न तु भावतो, भावसम्यग्दर्शनस्य सकलनयविषयविवेचनसाध्यत्वादेकविधद्विविधादिपर्यायापरिच्छेदे तदनुपपत्तेरिति वदन्ति ।
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.२, गा.२५ सर्वत्र दर्शनं यस्य तद्वाक्यात् किं न साधनम् ?
साधनं तद् भवत्येवमागमात्तु न भिद्यते ।। २५ ।। अथ यस्य सर्वत्र-सर्वक्षेत्रेषु, दर्शनं दुःखबाहुल्यज्ञानम्, तद्वाक्याद् दुःखबाहुल्यं ज्ञात्वा साधनम्-उक्तप्रसङ्गसाधनम्, किं न भवेद, आपाद्यव्यतिरेके निष्टायसाम्राज्याद् ?, इति चेत्, तत् साधनं भवत्येव, तु-पुनः, एवम्-उक्तप्रकारेण, आगमाद् न भिद्यते, श्रुतानुसारिमतेः श्रुतान्तर्भूतत्वात् । अत एव भव्याभव्यादिभावानां पूर्वम्
"तत्थ य अहेउवाओ भवियाऽभवियादओ भावा" इति गाथाप्रतीकेनाऽहेतुवादविषयत्वमुक्त्वापि
"भविओ सम्मइंसण-नाण चरित्त-पडिवत्तिसम्पण्णो ।
__णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ।।३/४४ ।।" इति गाथानन्तरमागमोपगृहीतहेतुप्रवृत्त्या हेतुवादविषयत्वमुक्तं भगवता सम्मतिकृता, इत्यवधेयम्
।।२५।।
[आगमोक्तस्य वस्तुनो हेतुद्वारा वास्तविकत्वसाधनमेव हेतुवादस्य लक्षणमिति सूचनम्]
वचनव्यापार केवलमपेक्ष्यायं क्रमः । यदा तु ज्ञान-दर्शन-चारित्रत्रितये यथावदनुष्ठानप्रवणः तद्विकलप्टा पुरुषः प्रतीयते तदा अनुमानगम्योऽपि तद्विभागो भवति, यथा-भव्यः अभव्यो वाऽयं पुरुषः, सम्यग्ज्ञानादिपरिपूर्णाऽपरिपूर्णत्वाभ्याम्, लोकप्रसिद्धभव्याऽभव्यपुरुषवत् । अहेतु
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org