________________
१९६
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४३
ननु ‘तद्विभागप्रतिपादकं वचो यथार्थम् अर्हद्ववचनत्वात् अनेकान्तात्मकवस्तुप्रतिपादकवचोवत्' इत्यनुमानात् तद्विभागप्रतिपत्तौ कथं न तस्यानुमानविषयता ? न; एवमप्यागमादेव तद्विभागप्रतिपत्तेः-तद्व्यतिरेकेण प्रमाणान्तरस्य तत्प्रतिपत्तिनिबन्धनस्याभावात् । अर्हदागमस्य च प्रधानार्थसंवादनिबन्धनत्प्रणीतत्वनिष्टायेऽनुमानतोऽतीन्द्रियार्थविषये प्रामाण्यं निष्टीयत इत्यभ्युपगम्यत एव । आगमनिरपेक्षस्य तु प्रमाणान्तरस्यास्मदादेस्तत्र प्रवृत्तिर्न विद्यत इत्येतावताऽहेतुवादत्वमेतद्विषयागमस्योच्यत इति ।।४३ ।।
___-: अष्टसहस्खीतात्पर्यविवरणे :
परि. ६, का. ७७-७८ स्यात् सर्वं हेतुतः सिद्धमित्यादि, ननु कथमेतत् कात्स्येन हेतुसिद्धत्वाद्यभिधानं घटते ? हेतुसिद्धागमसिद्धानामर्थानामवान्तरविभागेनैव व्यवस्थितत्वात्, तदाह सम्मतिकारः
दुविहो धम्मावाओ अहेउवाओ अ हेउवाओ अ ।
तत्थ उ अहेउवाओ भवियाभविआदओ भावा ।। ३/४३ ।। अस्या अर्थः-धर्माणामस्तित्वादीनामासमन्ताद्वादस्तत्प्रतिपादक आगमोऽहेतुवादो हेतुवादष्टोति द्विधा, तत्र प्रमाणान्तरानवगतार्थप्रतिपादक आगमोऽहेतुवादः, तद्विपरीतो हेतुवादो । हेतोर्हेतुपरिच्छिन्नस्य वादो हेतुवाद इति व्युत्पत्तेः । तत्र त्वहेतुवादो भव्याभव्यत्वादयो भावाः, विषयाध्यवसानेन विषय्यभिधानमेतत् भव्याभव्यत्वादिप्रतिपादक आगम इत्यर्थः । न ह्ययं भव्योऽभव्यो वेत्यत्रास्मदादीनां प्रमाणं प्रवर्त्तते, न च तद्विभागप्रतिपादकं वचनं यथार्थम् अर्हद्वचनत्वादित्यनुमानप्रवृत्तेर्व्याघातः, वचनविभागावच्छेदकत्वेन तत्प्रवृत्तावपि स्वातन्त्र्येण तदप्रवृत्तेः, तथा च भव्याभव्यत्वादयोऽहेतुवादसिद्धाः, अन्ये च हेतुवादसिद्धा इति व्याप्त्या प्रकृतसप्तभङ्गी न युक्तेति चेत्, मैवम्, स्याच्छब्दमर्यादयैव सर्वानुपपत्तिनिरासात्, अहेतुवादसिद्धस्याप्यर्थस्य तत्तद्धर्मिणि तत्प्रतिपादितलिङ्गेन हेतुवादत्वव्यवस्थितेः, तदुक्तं सम्मतावेव
भविओ सम्मइंसण-नाण-चरित्तपडिवत्तिसंपुन्नो ।
णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ।।३/४४ ।। प्रयोगटायम-भव्योऽयं सम्यग्दर्शनज्ञानचारित्रप्रतिपत्तिसम्पूर्णत्वात सम्प्रतिपन्नपुरुषवदिति, किं बहुना ? अहेतुवादसिद्धेऽप्यर्थे ततोऽनेकान्तात्मकत्वसाधिका निराकाङ्क्षतात्पर्यार्थप्रतिपत्तिपर्यन्ताप्टा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org