________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४२-४३
१९५
दिवशादवान्तरसूक्ष्मतर-तमादिभेदेन तथैव स्व-परापेक्षया युगपत क्रमेण चोपलब्धेः । न च तरतमादिभेदेन नव-पुराणतया क्रमेणोपलब्धिः प्रतिक्षणं तथोत्पत्तिमन्तरेण संभवति । न चास्मदाद्यध्यक्षं निरवशेषधर्मात्मकवस्तुग्राहकं येनानन्तधर्माणामेकदा वस्तुन्यप्रतिपत्तेरभाव इत्युच्येत अनुमानतः प्रतिक्षणमनन्तधर्मात्मकस्य तस्य प्रदर्शितन्यायेन प्रतिपत्तेः । सकलत्रैलोक्यव्यावृत्तस्य च वस्तुनोऽध्यक्षेण ग्रहणे-तद्व्यावृत्तीनां परमार्थिकतद्धर्मरूपतया अन्यथा तस्य तद्व्यावृत्तताऽयोगात्-कथं नानन्तधर्माणां वस्तुन्यध्यक्षेण ग्रहणम् ? ||४२ ।।
[ आगमस्य हेतुवादाहेतुवादाभ्यां द्वैविध्येन विभजनम् ] इदानीं विदितनयत्वाद् विशिष्टप्रज्ञः शिष्यो विगृह्य कथनयोग्यः संपन्न इति तस्य विग्रहकथनोपदेशमाहदुविहो इत्यादि । अथवा प्रत्यक्ष-परोक्षरूपः संक्षेपतो द्विविध उपयोग आत्मनः । तत्र प्रत्यक्षोपयोगस्त्रिविधः अवधि-मनःपर्याय-केवलभेदेन । तत्र केवलोपयोगः सकलविषयः प्राक प्रतिपादितः । अवधिमनःपर्यायोपयोगस्त्वसकलविषयोऽस्मदादिभिरागमगम्यः । परोक्षोपयोगस्तु मति-श्रुतरूपो द्विविधः । तत्राक्ष-लिङ्गप्रभवमत्युपयोगस्य स्वरूपमावेदितम् । श्रुतोपयोगस्य त्वाचार्यस्तद्धेतुभूतहेत्वहेतुवादभेदभिन्नागमप्रतिपादनद्वारेण स्वरूपमाह
दुविहो धम्मावाओ अहेउवाओ य हेउवाओ य ।
तत्थ उ अहेउवाओ भवियाऽभवियादओ भावा ।।४३।। वस्तुधर्माणामस्तित्वादीनामासमन्ताद् वादस्तत्प्रतिपादक आगमः अहेतु-हेतुवादभेदेन द्वैविध्यं प्रतिपद्यते । प्रमाणान्तरानवगतवस्तुप्रतिपादक आंगमोऽहेतुवादः । तद्विपरीतस्त्वसौ हेतुवादः-हिनोति गमयत्यर्थमिति हेतुस्तत्परिच्छिन्नोऽर्थोऽपि हेतुः, तं वदति य आगम; स हेतुवादः । यस्तु वस्तुस्वरूपप्रतिपादकत्वेऽपि तद्विपरीतोऽसावहेतुवादो दृष्टिवादात् प्रायेणान्यः । तत्र त्वहेतुवादो भव्याभव्यस्वरूपप्रतिपादक आगमः तद्विभागप्रतिपादनेऽध्यक्षादेः प्रमाणान्तरस्याप्रवृत्तेः-नहि 'अयं भव्यः, अयं त्वभव्यः' इत्यत्रागममन्तरेण प्रमाणान्तरप्रवृत्तिसंभवोऽस्मदाद्यपेक्षया । ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org