SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ संमतितर्कप्रकरणे, काण्ड - ३, गाथा-४२ हम-निष्ठपर्याय - वः पुछ्गल नहं, तथा-परपर्यायां-खाडाशः धर्मास्तिडायः अधर्मास्तिडायः खे ત્રણ દ્રવ્યનઇં, એકકાલઈ ઘણઈ સંબંધઈં બહુપ્રકાર-ઉત્પત્તિઃ નાશઃ સંભવઈં જેટલા-સ્વઃ ૫૨ઃ પર્યાય, तेटला-उत्पत्तिः नाशः होई. तेवती- तिहां- ध्रौव्यस्व३प तेलां निरधार छ. पूर्वापरपर्यायानुगतઆધારાંશ તાવન્માત્ર હોઈ, તે વતી. अत्र सम्मतिगाथा १९४ एगसमयम्मि एगदवियस्स बहुआ वि होंति उप्पाया । उप्पायसमा विगमा, ठिई उ उस्सग्गओ णियमा ।। ३ / ४१ ।। [ एकस्मिन् द्रव्ये एकसमयेऽनन्तधर्मात्मकत्वस्य दृष्टान्तेन साधनम् ] एतदेव दृष्टान्तद्वारेण समर्थयन्नाह काय-मण-वयण - किरिया - रुवाइ गईविसेसओ वाव । संजोयभेयओ जाणणा य दवियस्स उप्पाओ ।।४२।। यदैवानन्तानन्तप्रदेशिकाहाराभावपरिणतपुद्गलोपयोगोपजातरस-रुधिरादिपरिणत वशाविर्भूतशिरोऽङ्गुल्याद्यङ्गोपाङ्गभावपरिणतस्थूरसूक्ष्मसूक्ष्मतरादिभेदभिन्नावयवात्मकस्य कायस्योत्पत्तिस्तदैवानन्तानन्तपरमाणुपचितमनोवर्गणापरिणतिप्रतिलभ्यमनउत्पादोऽपि तदैव वचनस्यापि कायोत्कृष्टतरवर्गणोत्पत्तिप्रतिलब्धवृत्तिरुत्पादः, तदैव च कायाऽऽत्मनोरन्योन्यानुप्रवेशाद् विषमीकृताऽसंख्यातात्मप्रदेशे कायक्रियोत्पत्तिः, तदैव च रूपादीनामपि प्रतिक्षणोत्पत्तिविनश्वराणामुत्पत्तिः, तदैव च मिथ्यात्वाऽविरति -प्रमाद- कषायादिपरिणतिसमुत्पादितकर्मबन्धनिमित्ताऽऽगामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सृज्यमानोपादीयमानानन्तानन्तपरमाण्वापादिततत्प्रमाणसंयोग-विभागानामुत्पत्तिः । यद्वा यदैव शरीरादेर्द्रव्यस्योत्पत्तिस्तदैव त्रैलोक्यान्तर्गतसमस्तद्रव्यैः सह साक्षात् पारंपर्येण वा संबन्धानामुत्पत्तिः सर्वद्रव्यव्याप्तिव्यवस्थिताकाश-धर्माधर्मादिद्रव्यसंबन्धात्, तदैव च भाविस्वपर्याय-परज्ञानविषयत्वादीनां चोत्पादनशक्तिनामप्युत्पादः शिरो-ग्रीवा-चञ्चु-नेत्रपिच्छोदर-चरणाद्यनेकावयवान्तर्भावकमयूराण्डकरसशक्तीनामिव; अन्यथा तत्र तेषामुत्तरकालमप्यनुत्पत्तिप्रसङ्गात् । उत्पाद-विनाश-स्थित्यात्मकाष्टा प्रतिक्षणं भावाः शीतोष्णसंपर्का Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002563
Book TitleSammatitarka Prakaranam Part 1
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages314
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy