________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-४१
१९३
-: शास्त्रवार्तासमुच्चये :
स्याद्वादकल्पलताटीकायां स्त.७, गा. १३ एवं च ‘पृथिव्यादयष्टात्वारः परमाणुरूपा नित्या एव, कार्यरूपास्त्वनित्याः' इति तेषां प्रक्रियापि निरस्ता, परमाणूनामपि कार्याभिन्नतयाऽर्थान्तरभावगमनरूपस्य नाशस्य, विभागजातस्य चोत्पादस्य समर्थनात् । यथा हि बहूनामेकशब्दव्यपदेशनिदानं समुदयजनित उत्पादः, तथैकस्य बहुशब्दव्यपदेशनिदानं विभागजातोऽपि स किं नाभ्युपेयः ? । व्यवहरन्ति हि भग्ने घटे ‘बहूनि कपालान्युत्पन्नानि' इति । एवं परमाणूनामप्येकनाशे युक्तो बहुत्वेनोत्पादः । तदाहुः- [सम्मतौ]
बहुआण एगसद्दे जह संजोगाहि होइ उप्पाओ ।
नणु एगविभागम्मि वि जुजइ बहुआण उप्पाओ ।। [३/४०] इति । [एकस्मिन्नपि समये प्रत्येकं द्रव्यमनन्तपर्यायात्मकं प्रागुक्तरीत्या सिध्यति इत्यभिधानम्]
नन्वनन्ते काले भवत्वनन्तपर्यायात्मकमेकं द्रव्यम्, एकसमये तु कथं तत् तदात्मकमवसीयते ? प्रदर्शितदिशा तदात्मकं तदवसीयत इत्याह
एगसमयम्मि एगदवियस्स बहुया वि होंति उप्पाया ।
उप्पायसमा विगमा ठिई उ उस्सग्गओ णियमा ।।४१।। एकस्मिन् समये एकद्रव्यस्य बहव उत्पादा भवन्ति, उत्पादसमानसंख्या विगमा अपि तस्यैव तदैवोत्पद्यन्ते विनाशमन्तरेणोत्पादस्यासंभवात् नहि पूर्वपर्यायाविनाशे उत्तरपर्यायः प्रादुर्भवितुमर्हति; प्रादुर्भावे वा सर्वस्य सर्वकार्यताप्रसक्तिः, तदकार्यत्वं वा कार्यान्तरस्येव स्यात् । स्थितिरपि सामान्यरूपतया तथैव नियता स्थितिरहितस्योत्पादस्याभावात् भावे वा शशशृङ्गादेरप्युत्पत्तिप्रसङ्गात् ।।४१ ।।
- द्रव्यगुएरापर्यायनो रास :
al., u. १८ નિજપરપર્યાયઈ એકદા, બહુ સંબંધઈ બહુ રૂ૫ રે. ઉત્પત્તિ નાશઃ ઈમ સંભવઈ, નિયમઈ તિહાં ધોવ્ય સ્વરૂપ રે. ૧૫૧ જિન)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org