________________
१९२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३९-४०
यदि च परमाणवः स्वरूपापरित्यागतः कार्यद्रव्यमारभन्ते स्वात्मनोऽव्यतिरिक्तं तदा कार्यद्रव्यानुत्पत्तिप्रसक्तिः । न हि कार्यद्रव्ये परमाणुस्वरूपापरित्यागे स्थूलत्वस्य सद्भावस्तस्य तदभावात्मकत्वात् । तस्मात् परमाणुरूपतापरित्यागेन मृद्रव्यं स्थूलकार्यस्वरूपमासादयतीति तद्रूपतापरित्यागेन च पुनरपि परमाणुरूपतामनुभवतीति वलयवत् पुद्गलद्रव्यपरिणतेरादिरन्तो वा न विद्यते इति न कार्यद्रव्यं कारणेभ्यो भिन्नम् । न चार्थान्तरभावगमनं विनाशोऽयुक्त इति तद्रूपपरित्यागोपादानात्मकस्थितिस्वभावस्य द्रव्यस्य त्रैकाल्यं नानुपपन्नम् । यथा च एकसंख्यासंयोग-महत्त्वाऽपरत्वादिपर्यायैः परमाणूनामुत्पत्तेः कार्यरूपाः परमाणवस्तथा बहुत्वसंख्याविभागाऽल्पपरिमाण-परत्वात्मकत्वेन प्रादुर्भावात् परमाणवः कार्यद्रव्यवत् तथोत्पन्नाप्टााभ्युपगन्तव्याः, कारणान्वयव्यतिरेकानुविधानोपलम्भस्य कार्यताव्यवस्थानिबन्धनस्यात्रापि सद्भावादिति अयमर्थः 'तत्तो य' इत्यादिना गाथापप्टार्धेन प्रदर्शितः । तस्माद् एकपरिमाणाद् द्रव्याद् विभक्तः विभागात्मकत्वेनोत्पन्नः अणुरिति अणुर्जातो भवति एतदवस्थायाः प्राक् तदसत्त्वात्; सत्त्वे वा इदानीमिव प्रागपि स्थूलरूपकार्याभावप्रसङ्गात् इदानीं वा तद्रूपता तद्रूपाविशेषात् प्राक्तनावस्थायामिव स्यात् । एवं चतुर्विधकार्यद्रव्याभ्युपगमोऽसंगतः ।।३९ । ।
[ प्रतिवादिमतमाक्षिप्य प्रतिबन्दीतया स्वेष्टस्य विभागजन्योत्पादस्य समर्थनम् ] प्रस्तुतमेवाक्षेपद्वारेणोपसंहरत्याचार्यः--
बहुयाण एगसद्दे जइ संजोगाहि होइ उप्पाओ ।
णणु एगविभागम्मि वि जुज्जइ बहुयाण उप्पाओ ।।४०।। द्व्यणुकादीनां सति संयोगे यद्येकस्य त्र्यणुकादेः कार्यद्रव्यस्योत्पादो भवति-अन्यथैकाभिधानप्रत्ययव्यवहारायोगात् नहि बहुषु ‘एको घट उत्पन्नः' इत्यादिव्यवहारो युक्तः-'ननु' इत्यक्षमायाम् । एकस्य कार्यद्रव्यस्य विनाशेऽपि युज्यत एव बहूनां समानजातीयानां तत्कार्यद्रव्यविनाशात्मकानां प्रभूततया विभक्तात्मनामुत्पाद इति । तथाहि-घटविनाशाद् बहूनि कपालानि उत्पन्नानीत्यनेकाभिधानप्रत्ययव्यवहारो युक्तः; अन्यथा तदसंभवात् । ततः प्रत्येकं त्र्यात्मकास्त्रिकालाप्टोत्पादादयो व्यवस्थिता इत्यनन्तपर्यायात्मकमेकं द्रव्यम् ।।४० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org