Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 242
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-४४ १९७ या उपपत्तयस्ता हेतुवादसिद्धत्वमुपपादयन्ति, श्रुतमात्रेण ज्ञातस्याज्ञातप्रायत्वात्, ताप्टाोपपत्तयः श्रुतोपयोगानन्यत्वान्न श्रुतत्वव्याहन्त्र्य इत्याधुपपादितं ज्ञानबिन्दौ अस्माभिः । अत एव पदार्थप्रतिपत्त्यागमात् निष्टिातमप्यर्थं सिसाधयिषाधीनपक्षतयाऽनुमिन्वतेऽनुमानरसिकाः, मननसाध्यश्रद्धाविशेषस्येत्थमेवोपपत्तेः, अत एव नियमतः षट्कायश्रद्धानेऽपि जिनवनचरुचिमत्त्वाद् द्रव्यतः सम्यग्दृष्टित्वम्, न तु भावतो, भावसम्यग्दर्शनस्य सकलनयविषयविवेचनसाध्यत्वादेकविधद्विविधादिपर्यायापरिच्छेदे तदनुपपत्तेरिति वदन्ति । -: शास्त्रवार्तासमुच्चये : स्याद्वादकल्पलताटीकायां स्त.२, गा.२५ सर्वत्र दर्शनं यस्य तद्वाक्यात् किं न साधनम् ? साधनं तद् भवत्येवमागमात्तु न भिद्यते ।। २५ ।। अथ यस्य सर्वत्र-सर्वक्षेत्रेषु, दर्शनं दुःखबाहुल्यज्ञानम्, तद्वाक्याद् दुःखबाहुल्यं ज्ञात्वा साधनम्-उक्तप्रसङ्गसाधनम्, किं न भवेद, आपाद्यव्यतिरेके निष्टायसाम्राज्याद् ?, इति चेत्, तत् साधनं भवत्येव, तु-पुनः, एवम्-उक्तप्रकारेण, आगमाद् न भिद्यते, श्रुतानुसारिमतेः श्रुतान्तर्भूतत्वात् । अत एव भव्याभव्यादिभावानां पूर्वम् "तत्थ य अहेउवाओ भवियाऽभवियादओ भावा" इति गाथाप्रतीकेनाऽहेतुवादविषयत्वमुक्त्वापि "भविओ सम्मइंसण-नाण चरित्त-पडिवत्तिसम्पण्णो । __णियमा दुक्खंतकडो त्ति लक्खणं हेउवायस्स ।।३/४४ ।।" इति गाथानन्तरमागमोपगृहीतहेतुप्रवृत्त्या हेतुवादविषयत्वमुक्तं भगवता सम्मतिकृता, इत्यवधेयम् ।।२५।। [आगमोक्तस्य वस्तुनो हेतुद्वारा वास्तविकत्वसाधनमेव हेतुवादस्य लक्षणमिति सूचनम्] वचनव्यापार केवलमपेक्ष्यायं क्रमः । यदा तु ज्ञान-दर्शन-चारित्रत्रितये यथावदनुष्ठानप्रवणः तद्विकलप्टा पुरुषः प्रतीयते तदा अनुमानगम्योऽपि तद्विभागो भवति, यथा-भव्यः अभव्यो वाऽयं पुरुषः, सम्यग्ज्ञानादिपरिपूर्णाऽपरिपूर्णत्वाभ्याम्, लोकप्रसिद्धभव्याऽभव्यपुरुषवत् । अहेतु Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314