Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 246
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-४५ २०१ -: उपदेशरहस्यम् :जो हेउवायपक्खंमि हेउओ आगमे य आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहगो अण्णो ।। १५१ ।। [३/४५ सम्म०] यः कष्टिाद्धेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि हेतुको युक्तिप्रणयनप्रवीणः, आगमे च देवलोकपृथ्वीसंख्यादावर्थे आगममात्रगम्ये आगमिकः आगममात्रप्रज्ञापनाप्रवीणः स स्वसमयप्रज्ञापक उच्यते । व्यवच्छेद्यमाह-सिद्धान्तविराधको जिनवचनानुयोगविनाशकः अन्यः प्रागुक्तविशेषणविकल: साधुः । तथाहि युक्तिमार्गसहेष्वप्यागमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावान्न श्रोतृणां दृढा प्रतीतिः कर्तुं पार्यते, आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुटुंकयन्नसंपादितनियतार्थप्रतीतिर्विफलारम्भत्वेन स्वयमेव वैलक्ष्यं भजते, श्रोतुष्टानादेयवचनो भवतीति न विपरीतव्यवहारिणा तेन सम्यसिद्धान्त आराधितो भवति ।। १५१ ।। ___-: तत्त्वार्थश्लोकवार्तिके : __ अ. १ श्रद्धानुसारिणोऽपि ह्यागमादेव प्रवर्तयितुं शक्या, न यथा कथंचित् प्रवचनोपदिष्टतत्त्वे श्रद्धामनुसरतां श्रद्धानुसारित्वादन्यादृशामतिमूढमनस्कत्वात् तत्त्वार्थश्रवणेऽनधिकृतत्वादतिविपर्यस्तवत् तेषां तदनुरूपोपदेशयोग्यत्वात् सिद्धमातृकोपदेशयोग्यदारकवत् । प्रेक्षावन्तः पुनरागमादनुमानाच्च प्रवर्तमानास्तत्त्वं लभन्ते, न केवलादनुमानात्प्रत्यक्षादितस्तेषामप्रवृत्तिप्रसंगात् । नापि केवलादागमादेव विरुद्धार्थमतेभ्योपि प्रवर्तमानानां प्रेक्षावत्त्वप्रसक्तेः । तदुक्तम् - “सिद्धं चेद्धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेदागमात्सर्वं विरुद्धार्थमतान्यपि ।।” इति । तस्मादाप्ते वक्तरि संप्रदायाव्यवच्छेदेन निष्टिाते तद्वाक्यात्प्रवर्तनमागमादेव । वक्तर्यनाप्ते तु यत्तद्वाक्यात्प्रवर्तनं तदनुमानादिति विभागः साधीयान् । तदप्युक्तम्"वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम् । आप्ते वक्तरि तद्वाक्यात्साध्यमागमसाधितम् ।।" न चैवं प्रमाणसंप्लववादिविरोधः, क्वचिदुभाभ्यामागमानुमानाभ्यां प्रवर्तनस्येष्टत्वात् । प्रवचनस्याहेतुहेतुमदात्मकत्वात् । स्वसमयप्रज्ञापकत्वस्य तत्परिज्ञाननिबन्धनत्वादपरिज्ञाताहेतुवादागमस्य सिद्धांतविरोधकत्वात् । तथा चाभ्यधायि - [सम्मतौ] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314