Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 247
________________ २०२ संमतितर्कप्रकरणे, काण्ड-३, गाथा-४६ "जो हेदुवादपखम्मि हेदुओ आगमम्मि आगमओ। सो ससमयपण्णवओ सिद्धंतविराहओ अण्णोति ।। ३/४५ ।।" तत्रागममूलमिदमादिवाक्यं परापरगुरुप्रवाहमाध्याय प्रवचनस्य प्रवर्तकं तत्त्वार्थ लोकवार्तिकं प्रवक्ष्यामीति वचनस्यागमपूर्वकागमार्थत्वात् । -: आचारागसूत्र : पू.आ.श्री शीलाङ्काचार्यजीकृतटीकायाम् अ. २, उ. ६ स्यादेतत्-कथं तर्हि धर्मकथा कार्येत्युच्यते–'कोऽयं' इत्यादि, यो हि वश्येन्द्रियो विषयविषपराङ्मुखः संसारोद्विग्नमना वैराग्याकृष्यमाणहृदयो धर्मं पृच्छति, तेनाचार्यादिना धर्मकथिकेनासौ पर्यालोचनीयः-कोऽयं पुरुषो ? मिथ्यादृष्टिरुत भद्रकः, केन वाऽऽशयेनायं पृच्छति, कं च देवताविशेषं नतः, किमनेन दर्शनमाश्रितमित्येवमालोच्य यथायोग्यमुत्तरकालं कथनीयम्, एतदुक्तं भवति-धर्मकथाविधिज्ञो ह्यात्मना परिपूर्णः श्रोतारमालोचयति द्रव्यत:-क्षेत्रतः किमिदं क्षेत्रं तञ्चनिकैर्भागवतैरन्यैर्वा तज्जातीयैः पार्श्वस्थादिभिर्वोत्सर्गरुचिभिर्वा भावितम्, कालतो दुष्षमादिकं कालं दुर्लभद्रव्यकालं वा, भावतोऽरक्तद्विष्टमध्यस्थभावापन्नमेवं पर्यालोच्य यथा यथाऽसौ बुध्यते तथा तथा धर्मकथा कार्या, एवमसौ धर्मकथायोग्यः, अपरस्य त्वधिकार एव नास्तीति, उक्तं च- [सम्मतौ] “जो हेउवायपक्खंमि हेउओ आगमम्मि आगमिओ । सो ससमयपण्णवओ सिद्धंतविराहओ अण्णो ।।३/४५ ।।" [हेतुसाध्यमर्थं हेतोरेव इतरं चागमत एव साधयतो नयवादः शुद्धो नान्यस्य इति कथनम्] यो हेतुसाध्यमर्थं हेतुना साधयति आगमसिद्धं च आगमेन, तस्य नयवादः परिशुद्धः नान्यस्येत्येतदेवाऽऽह-परिसुद्ध' इत्यादि । यद्वा वस्तुधर्मप्रतिपादकोऽहेतु-हेतुवादप्रभेद आगमो वाक्य-नयरूपः परिशुद्धतरभेदेन द्विरूपतां प्रतिपद्यते इत्याह परिसुद्धो नयवाओ आगममेत्तत्थसाहओ होइ । सो चेव दुण्णिगिण्णो दोण्णि वि पक्खे विधम्मेइ ।।४६।। परि समन्तात् शुद्धो नयवादः यदा विवक्षिताऽविवक्षितानन्तरूपात्मकवस्तुप्रतिपादकं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org:

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314