Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 256
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-५१-५२ २११ मिथ्याज्ञानात् सम्यक्क्रियानङ्तया आत्यन्तिकभवोपद्रवान्निवृत्त्यसिद्धेः तद्विपर्ययकारणत्वात् तञ्चासकृत् प्राक् प्रतिपादितमिति न पुनः प्रतन्यते । ततः कारणात् कार्यं कथंचिद् अन्यत् कथंचिदनन्यत् अत एव तदतद्रूपतया ‘सञ्च असञ्च' इति ।।५१ ।। [ कार्य-कारणयोर्भेदाभेदरूपत्वदर्शनेनानेकान्तरूपत्वोपपादनम् ] अमुमेव अर्थमुपसंहारद्वारेण उपदर्शयन्नाह नत्थि पुढवीविसिट्ठो 'घडो'त्ति जं तेण जुज्जइ अणण्णो । जं पुण घडो'त्ति पुव्वं ण आसि पुढवी तओ अण्णो ।।५२।। नास्ति सद्रव्यमृत्पृथिवीत्वादिभ्यो विश्लिष्टो भिन्नो घटः सदादिव्यतिरिक्तस्वभावतया तस्यानुपलम्भात् । किञ्च, यदि सत्त्वादयो धर्मा घटाद् एकान्ततो भिन्नाः सोऽपि वा तेभ्यो भिन्नः स्यात् तदा न घटस्य सदादित्वं स्यात् स्वतोऽसदादेरन्यधर्मयोगेऽपि शशशृङ्गादेरिव तथात्वायोगात् सदादेरपि घटाद्याकाराद् अत्यन्तभेदे निराकारतया अत्यन्ताभावस्येव उपलम्भविषयत्वायोगाद् ज्ञेयत्व-प्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो भेदे असत्त्वम् सदादेस्तु तेभ्यो भेदे अज्ञेयत्वाद् असत्त्वमेव “उपलम्भः सत्ता” [ ] इति वचनात् । ततः सदादिरूपतया उपलभ्यमानत्वाद् घटस्य तेभ्योऽभिन्नरूपताऽभ्युपगन्तव्या प्रमेयव्यवस्थितेः प्रमाणनिबन्धनत्वात् । यत् पुनः पृथुबुनोदराद्याकारतया पूर्व सदादिर्न आसीत् ततोऽसौ अन्यस्तेभ्यो घटरूपतया प्राक् सदादेरनुपलम्भात् प्रागपि तद्रूपस्य सदादौ सत्त्वे अनुपलम्भायोगात् दृश्याऽनुपलम्भस्य च अभावाव्यभिचारित्वात् तदतद्रूपतायां च विरोधाभावात् प्रतीयमानायां तदयोगात् अबाधितप्रत्ययस्य च मिथ्यात्वासंभवाद् बाधाविरहस्य च प्रागेव उपपादितत्वात् ।।५२ ।। -: विशेषवश्यकभाष्यम् :आह - यद्यैकत्ववद् भेदे ऽपि कार्य-कारणयोस्तुल्य उपालम्भः, तर्हि कथं नाम लोकप्रसिद्धस्तन्तुपटादीनां कार्य-कारणभावः सिध्यति ? इति भवन्त एव कथयन्तु, इत्याह जं कज्ज-कारणाइं पज्जाया वत्थुणो जओ ते य । अन्नेऽणन्ने य मया तो कारण-कज्जभयणेयं ।। २१०३ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314