________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५१-५२
२११
मिथ्याज्ञानात् सम्यक्क्रियानङ्तया आत्यन्तिकभवोपद्रवान्निवृत्त्यसिद्धेः तद्विपर्ययकारणत्वात् तञ्चासकृत् प्राक् प्रतिपादितमिति न पुनः प्रतन्यते । ततः कारणात् कार्यं कथंचिद् अन्यत् कथंचिदनन्यत् अत एव तदतद्रूपतया ‘सञ्च असञ्च' इति ।।५१ ।।
[ कार्य-कारणयोर्भेदाभेदरूपत्वदर्शनेनानेकान्तरूपत्वोपपादनम् ] अमुमेव अर्थमुपसंहारद्वारेण उपदर्शयन्नाह
नत्थि पुढवीविसिट्ठो 'घडो'त्ति जं तेण जुज्जइ अणण्णो ।
जं पुण घडो'त्ति पुव्वं ण आसि पुढवी तओ अण्णो ।।५२।। नास्ति सद्रव्यमृत्पृथिवीत्वादिभ्यो विश्लिष्टो भिन्नो घटः सदादिव्यतिरिक्तस्वभावतया तस्यानुपलम्भात् । किञ्च, यदि सत्त्वादयो धर्मा घटाद् एकान्ततो भिन्नाः सोऽपि वा तेभ्यो भिन्नः स्यात् तदा न घटस्य सदादित्वं स्यात् स्वतोऽसदादेरन्यधर्मयोगेऽपि शशशृङ्गादेरिव तथात्वायोगात् सदादेरपि घटाद्याकाराद् अत्यन्तभेदे निराकारतया अत्यन्ताभावस्येव उपलम्भविषयत्वायोगाद् ज्ञेयत्व-प्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो भेदे असत्त्वम् सदादेस्तु तेभ्यो भेदे अज्ञेयत्वाद् असत्त्वमेव “उपलम्भः सत्ता” [ ] इति वचनात् । ततः सदादिरूपतया उपलभ्यमानत्वाद् घटस्य तेभ्योऽभिन्नरूपताऽभ्युपगन्तव्या प्रमेयव्यवस्थितेः प्रमाणनिबन्धनत्वात् । यत् पुनः पृथुबुनोदराद्याकारतया पूर्व सदादिर्न आसीत् ततोऽसौ अन्यस्तेभ्यो घटरूपतया प्राक् सदादेरनुपलम्भात् प्रागपि तद्रूपस्य सदादौ सत्त्वे अनुपलम्भायोगात् दृश्याऽनुपलम्भस्य च अभावाव्यभिचारित्वात् तदतद्रूपतायां च विरोधाभावात् प्रतीयमानायां तदयोगात् अबाधितप्रत्ययस्य च मिथ्यात्वासंभवाद् बाधाविरहस्य च प्रागेव उपपादितत्वात् ।।५२ ।।
-: विशेषवश्यकभाष्यम् :आह - यद्यैकत्ववद् भेदे ऽपि कार्य-कारणयोस्तुल्य उपालम्भः, तर्हि कथं नाम लोकप्रसिद्धस्तन्तुपटादीनां कार्य-कारणभावः सिध्यति ? इति भवन्त एव कथयन्तु, इत्याह
जं कज्ज-कारणाइं पज्जाया वत्थुणो जओ ते य । अन्नेऽणन्ने य मया तो कारण-कज्जभयणेयं ।। २१०३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org