________________
२१२
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५२
यद् यस्माद् घट-मृत्पिण्डादिलक्षणे कार्य-कारणे वस्तुनः पृथ्विव्यादे: पर्यायौ वर्तेते, तौ च घटमृत्पिण्डलक्षणौ पृथ्वीपर्यायौ परस्परं यतो यस्मादन्यावनन्यौ च मतौ । तत्र संख्या-संज्ञा-लक्षणादिभेदादन्यत्वम्, मृदादिरूपतया सत्त्व-प्रमेयत्वादिभिष्टानन्यत्वम् । तस्मात् कार्य-कारणयोरियमन्याऽनन्यत्वलक्षणा भजना द्रष्टव्या । ततप्टा कथञ्चित् तयोः परस्परं भेदे, कथञ्चित्त्वभेदे कार्य-कारणभाव इति भावार्थः ।। २१०३ ।। एतदेवाह
नत्थि पुढवीविसिट्ठो घडो त्ति जं तेण जुज्जइ अणन्नो ।
जं पुण घडो त्ति पुव्वं न आसि पुढवी तओ अन्नो ।। २१०४ ।। पृथिव्या मृत्तिकाया विशिष्टो व्यतिरिक्तो तन्मयो घटो नास्ति न दृश्यते यद् यस्मात्, तेन तस्माद् युज्यतेऽनन्यो मृत्तिकातोऽभिन्नः । यत् पुनः ‘घटः' इति व्यक्तेन रूपेण पूर्वं घटनिष्पत्तेः प्राग् नासीद् नाभूत् किन्तु पृथिवी मृत्तिकैवासीत्, अन्यथा सर्वथैकत्वे पृथिवीकालेऽपि घटो दृश्यतेति भावः, ततस्तस्माज्ज्ञायते- पृथिवीतोऽन्यो घट इति । एवं यथा मृद्-घटयोरन्या-ऽनन्यत्वमेव, एवं सर्वत्र कार्य-कारणयोस्तद् भावनीयमिति ।। २१०४ ।।
'जह तंतवो निमित्तं पडस्स वेमादओ तहा तेसिं ।
जं चेट्टाइनिमित्तं तो ते पडयस्स नेमित्तं ।। २१०५ ।। यथा तन्तवः पटस्य निमित्तं कारणं तथा तेनैव प्रकारेण यस्मात् तेषां तन्तूनामातान-वितानादिचेष्टाया निमित्तं वेमादयस्ततो निमित्तस्येदं नैमित्तिकं कारणं पटस्य भवतीति ।। २१०६ ।।
__-: दशवैकालिकसूत्रे :
पू.आ.श्री हरिभद्रसूरीकृतटीकायाम् अ. १ अत्राह-'धर्मो मङ्गलमुत्कृष्ट'मित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तम्, तस्या हिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्यकारणयोप्टा कथञ्चिद्भेदात्, कथंचिद्भेदष्टा तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तं च
“णत्थि पुढवीविसिट्ठो घडोत्ति जं तेण जुज्जइ अणण्णो ।
जं पुण घडुत्ति पुव्वं नासी पुढवीइ तो अन्नो" ।। १ ।। इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थं वाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org