________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५३
२१३
__ [ सदायेकान्तवत् कालायेकान्तेऽपि मिथ्यात्वख्यापनम् ] सदायेकान्तवादवत् कालाद्येकान्तवादेऽपि मिथ्यात्वमेव इत्याह
कालो सहाव-णियई पुब्बकयं पुरिसकारणेगंता ।
मिच्छत्तं ते 'चेव समासओ होंति सम्मत्तं ॥५३॥ काल-स्वभाव-नियति-पूर्वकृत-पुरुषकारणरूपा एकान्ताः सर्वेऽपि एकका मिथ्यात्वम् त एव समुदिताः परस्पराऽजहद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते इति तात्पर्यार्थः ।
तन्न कालाद्येकान्ताः प्रमाणतः संभवन्तीति तद्वादो मिथ्यावाद इति स्थितम् । त एव अन्योन्यसव्यपेक्षा नित्याद्येकान्तव्यपोहेन एकानेकस्वभावाः कार्यनिर्वर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तत्प्रतिपादकस्य शास्त्रस्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः
।।५३ ।। -: पञ्चवस्तुकप्रकरणम् :भण्णई एगंतेणं, अम्हाणं कम्मवाय नो इट्ठो ।
ण य सो सहाववाओ, सुअकेवलिणा जओ भणिअं ।। १०४७ ।। 'भण्यते ऽत्र' 'नैकान्तेनास्माकं' -जैनानां 'कर्मवाद एवेष्टः न च न स्वभाववाद' इष्टः, श्रुतकेवलिना यतो भणितं' वक्ष्यमाणमिति गाथार्थः ।। १०४७ ।।
आयरियसिद्धसेणेण सम्मईए पइट्ठिअजसेणं ।
दूसमणिसादिवागरकप्पत्तणओ तदक्खेणं ।। १०४८ ।। 'आचार्यसिद्धसेनेन सम्मत्यां' भणितं वक्ष्यमाणम्, सम्मत्यां वा ‘प्रतिष्ठितयशसा' तेन, तथा 'दुष्षमानिशादिवाकरकल्पत्वात्' कारणात् 'तदाख्येन' दिवाकरनाम्नेति गाथार्थः ।। १०४८ ।। यद् भणितं तदाह
कालो सहाव-निअई, पुवकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ, समासओ होंति सम्मत्तं ।। १०४९ ।। [३/५३सम्म.]
1. चेव उ (पञ्चवस्तु, उपदेशपद, नयोपदेश, स्या. कल्प., सूत्र. टीका) । 2. चेव (संमति.) ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org