________________
२१४
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५३
कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणं एकान्ता एते कालादय एव कारणं विश्वस्येत्येवम्भूताः मिथ्यात्वम्, त एव समासतो भवन्ति सम्यक्त्वम्, सर्व एव समुदिताः सन्तः फलजनकत्वेनेति गाथार्थः ।। १०४९ ।।
-: उपदेशपद: :ननु कथमित्थं अनेककारणा बुद्धिर्जाता इत्याशक्य सर्वमेव कार्यमनेककालादिकारणजन्यमिति दर्शयन्नाह
कालो सहाव-नियई पुव्वकयं पुरिसकारणेगंता ।
मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ।।१६४ ।। [३/५३ सम्म.] कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका मिथ्यात्वं तत एव समुदिताः परस्परात्यजद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते । इति गाथातात्पर्यार्थः ।।
तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहि - सर्वस्य शीतोष्णवर्षवनस्पतिपुरुषादेर्जगतः प्रभवस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगमनागमनादौ च काल: कारणम्, तमन्तरेण सर्वस्यास्यान्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् । तदुक्तं
“काल: पचति भूतानि कालः संहरते प्रजाः ।
काल: सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।।१।।" असदेतत्, तत्कालसद्भावेऽपि वृष्ट्यादेः कदाचिददर्शनात् । न च तदभवनमपि तद्विशेषकृतमेव, नित्यैकरूपतया तस्य विशेषाभावात् । विशेषे वा तज्जननाजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात्,- स्वभावभेदाद् भेदसिद्धेः । न च वायुमण्डलादिकृतो वर्षादिर्विशेषः, तस्याप्यहेतुकतया भावात् । न च काल एव तस्य हेतुः, इतरेतराश्रयदोषप्रसक्तेः-सति कालभेदे वर्षादिभेदहेतोर्ग्रहमण्डलादेर्भेदः, तद्भदाञ्च कालभेद इति परिस्फुटमितरेतराश्रयत्वम् । अन्यतः कारणाद् वर्षाभिदेऽभ्युपगम्यमाने न काल एवैकः कारणं भवेदित्यभ्युपगमविरोधः, कालस्य च कुतष्टिाद् भेदाभ्युपगमेऽनित्यत्वमित्युक्तम् । तत्र च प्रभवस्थितिनाशेषु यद्यपरः कालः कारणम्, तदा तत्रापि स एव पर्यनुयोग इत्यनवस्थानाद् न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्य कारणत्वं युक्तम्, क्रमयोगपद्याभ्यां तद्विरोधात् । तन्न काल एवैकः कारणं जगतः ।।१।।
1. चेव (संमति.) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org