________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५३
२१५
__ अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति । अत्र यदि स्वभावकारणा भावा इति तेषामभ्युपगमः, तदा स्वात्मनि क्रियाविरोधो दोषः । नात्युत्पन्नानां तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक्स्वभावाऽभावेऽप्युत्पत्तेर्निर्वृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथवा कारणमन्तरेण भावा भवन्ति स्वपरकारणनिमित्तिजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावा इति शब्दार्थः । तर्हि प्रत्यक्षविरोधो दोषः । तथा हि-अध्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निष्टिातमेव । यस्य हि यस्मिन् सत्येव भावः, यस्य च विकाराद् यस्य विकारः, तत्तस्य कारणत्वमुच्यते । उच्छूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्ष्ण्यादेरन्वयव्यतिरेकवदध्यक्षानुपलम्भाभ्यां कारणतया निष्टिातमिति न स्वभावैकान्तवादोऽपि ज्यायान् ।।२।।
सर्वस्य वस्तुनस्तथा तथा नियतरूपेण भवनाद् नियतिरेव कारणमिति केचित् । तदुक्तम् - “प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति ना भाविनोऽस्ति नाशः ।।१।।" असदेतत्, शास्त्रोपदेशवैयर्थ्यप्रसक्तेः, तदुपदेशमन्तरेणाप्यर्थेषु नियतिकृतबुद्धेर्नियत्यैव भावात् । दृष्टादृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावष्टा स्यात् । इति केवलनियतिवादोऽपि न श्रेयान् ।।३।। जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः
“यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते ।
तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ।।१।।" असदेतत्, कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टकारणप्रकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचित्र्यकारणमुपपद्यते, तस्य कर्बधीनत्वात् । न चैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत्, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात् । अनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष-काल स्वभावादेरपि जगद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात् । इति कर्मैकान्तवादोऽपि न विचारसहः ।।४।।
अन्ये तु वर्णयन्ति; पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयः । तथा चोक्तम् -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org