________________
२१६
“ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसां । प्ररोहाणामिव प्लक्षः स हेतुः सर्वजन्मनाम् ।।१।।” इति ।
संमतितर्कप्रकरणे, काण्ड - ३, गाथा- ५३
एतदपि न घटते, यतः प्रेक्षापूर्वकारिणां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, अतः किं प्रयोजनमुद्दिश्यायं जगत्करणे प्रवर्त्तते ? नेश्वरादिप्रेरणात्, अस्वातन्त्र्यप्रसक्तेः, न परानुग्रहार्थम्, अनुकम्पया दुःखितसत्त्वनिर्वर्त्तनानुपपत्तेः । न तत्कर्मप्रक्षयार्थम्, दुःखितसत्त्वनिर्माणे प्रवृत्तेस्तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थं तन्निर्माणप्रवृत्तावप्रेक्षापूर्वकारितापत्तेः । इति नैतद्वादोऽपि विदुषां मनोमोदावहः । । ५ । । अतो न कालाद्येकान्ताः प्रमाणतः सम्भवन्तीति तद्वादो मिथ्यावाद इति । त एवान्योऽन्यसव्यपेक्षानित्याद्येकान्तव्यपोहेनैकानेकस्वभावकार्यनिर्वर्त्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तद्वादः सम्यग्वाद इति स्थितम् ।। १६४ ।।
-: नयोपदेशे :
गा. १२४
तथा च सकलनयदृष्ट्या मुद्द्रपंक्तयादिदृष्टान्तेन सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र सङ्गतिमङ्गति, तत्पक्षस्य सर्वनयमत्वेन सम्यग्रूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिथ्यारूपत्वात्, तदाहुराचार्याः- [सम्मतौ ]
“कालो सहाव णियई पुव्वकयं पुरिसकारणेगन्ता ।
मिच्छतं ते चेव 'उ समासओ हुन्ति सम्मत्तं ।। ३ / ५३ ।।”
-: शास्त्रवार्त्तासमुच्चये :स्याद्वादकल्पलताटीकायां स्त. ७, गा. ५२
अत्र प्रसङ्गाद् वार्त्तान्तरमाह
कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः ।
केवलानां तदन्ये तु मिथः सामग्रयपेक्षया ।। ५२ ।।
अन्ये प्रवादिनः एकान्तवादिनः, कालादीनाम्, आदिना स्वभावादिग्रहः, केवलानां परकृप्तहेतुरहितानाम्, कर्तृत्वम् असाधारणत्वेन हेतुत्वम्, मन्यन्ते । तदन्ये तु अनेकान्तवादिनः सामग्र्यपेक्षया सामग्रीप्रविष्टत्वेन, मिथः परस्परम्, सहकारिलक्षणं कर्तृत्वं 'मन्यन्ते' इति प्राक्तनानुषङ्गः । इदमेवाऽभिहितं सम्मतिकारेण
1. चेव ( संमति ) ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org