________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा - ५०-५१
[ अन्योन्यनिरपेक्षनयाश्रितानां वादानां मिथ्यात्वराहित्याभावप्रतिपादनम् ]
अन्योन्यनिरपेक्षनयाश्रितस्य मिथ्यात्वाऽविनाभूतत्वमेव दर्शयन्नाह
जे संतवायदोसे सक्कोलूया भांति संखाणं ।
संखा य असव्वाए तेसिं सव्वे वि ते सचा ।। ५० ।।
२१०
यान् एकान्तसद्वादपक्षे द्रव्यास्तिकाभ्युपगतपदार्थाभ्युपगमे शाक्यौलूक्या दोषान् वदन्ति साङ्ख्यानां क्रिया-गुणव्यपदेशोपलब्ध्यादिप्रसङ्गादिलक्षणान् ते सर्वेऽपि तेषां सत्या इत्येवं संबन्धः कार्यः । ते च दोषाः एवं सत्याः स्युः यद्यन्यनिरपेक्षनयाभ्युपगतपदार्थप्रतिपादकं तत् शास्त्र मिथ्या स्यात् नान्यथा प्रागपि कार्यावस्थात एकान्तेन तत्सत्त्वनिबन्धनत्वात् तेषाम् अन्यथा कथंचित् सत्त्वे अनेकान्तवादापत्तेर्दोषाभाव एव स्यात् । साङ्ख्या अपि असत्कार्यवाददोषान् असदकरणादीन् यान् वदन्ति ते सर्वे तेषां सत्या एव एकान्ताऽसति कारणव्यापारासंभवात् अन्यथा शशशृङ्गादेरपि कारणव्यापारादुत्पत्तिः स्यात् । [S.T.P.705]
तस्माद् द्रव्यास्तिक-पर्यायास्तिकाभ्यां केवलाभ्यां सहिताभ्यामन्योन्यनिरपेक्षाभ्यां व्यवस्थापितं वस्तु असत्यमिति तत्प्रतिपादकं शास्त्रं सर्वं मिथ्येति व्यवस्थितम् ||५० | | [S.T.P. 709] [ अन्वय-व्यतिरेकाभ्यां निरपेक्षनयद्वये मिथ्याज्ञानरूपत्वस्य दृढीकरणम् ] अमुमेवार्थमन्वय-व्यतिरेकाभ्यां दृढीकर्तुमाह
ते उ भयणोवणीया सम्महंसणमणुत्तरं होंति ।
जं भवदुक्खविमोक्खं दो वि न पूरेंति पाडिक्कं ।। ५१ । ।
तौ द्रव्य-पर्यायास्तिकनयौ भजनया परस्परस्वभावाऽविनाभूततया उपनीतो सदसद्रूपैकान्तव्यवच्छेदेन तदात्मकैककार्यकारणादिवस्तुप्रतिपादकत्वेन उपयोजितौ यदा भवतस्तदा सम्यग्दर्शनमनुत्तरं नास्ति अस्माद् अन्यद् उत्तरं प्रधानं यस्मिंस्तत् तथाभूतं भवतः परस्पराविनिर्भागवर्तिद्रव्यपर्यायात्मकैकवस्तुतत्त्वविषयरुच्यात्मकाऽबाधिताऽवबोधस्वभावत्वात् । यदा तु अन्योन्यनिरपेक्षद्रव्य-पर्यायप्रतिपादनत्वेन उपनीतौ भवतो न तदा सम्यक्त्वं प्रतिपद्येते यस्मात् संसारभाविजन्मादिदुः खविमोक्षमात्यन्तिकं विश्लेषं द्वावपि तौ प्रत्येकं न विधत्तः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org