Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 260
________________ संमतितर्कप्रकरणे, काण्ड-३, गाथा-५३ २१५ __ अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति । अत्र यदि स्वभावकारणा भावा इति तेषामभ्युपगमः, तदा स्वात्मनि क्रियाविरोधो दोषः । नात्युत्पन्नानां तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक्स्वभावाऽभावेऽप्युत्पत्तेर्निर्वृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथवा कारणमन्तरेण भावा भवन्ति स्वपरकारणनिमित्तिजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावा इति शब्दार्थः । तर्हि प्रत्यक्षविरोधो दोषः । तथा हि-अध्यक्षानुपलम्भाभ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निष्टिातमेव । यस्य हि यस्मिन् सत्येव भावः, यस्य च विकाराद् यस्य विकारः, तत्तस्य कारणत्वमुच्यते । उच्छूनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्ष्ण्यादेरन्वयव्यतिरेकवदध्यक्षानुपलम्भाभ्यां कारणतया निष्टिातमिति न स्वभावैकान्तवादोऽपि ज्यायान् ।।२।। सर्वस्य वस्तुनस्तथा तथा नियतरूपेण भवनाद् नियतिरेव कारणमिति केचित् । तदुक्तम् - “प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति ना भाविनोऽस्ति नाशः ।।१।।" असदेतत्, शास्त्रोपदेशवैयर्थ्यप्रसक्तेः, तदुपदेशमन्तरेणाप्यर्थेषु नियतिकृतबुद्धेर्नियत्यैव भावात् । दृष्टादृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावष्टा स्यात् । इति केवलनियतिवादोऽपि न श्रेयान् ।।३।। जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः “यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ।।१।।" असदेतत्, कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टकारणप्रकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि कारणप्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचित्र्यकारणमुपपद्यते, तस्य कर्बधीनत्वात् । न चैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत्, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात् । अनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष-काल स्वभावादेरपि जगद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात् । इति कर्मैकान्तवादोऽपि न विचारसहः ।।४।। अन्ये तु वर्णयन्ति; पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयः । तथा चोक्तम् - Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314