Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 161
________________ संमतितर्कप्रकरणे, काण्ड-२, गाथा-१६ वसितचतुर्ज्ञानो ज्ञातदृष्टभाषी ज्ञाता दृष्टा च नियमेन युज्यते; तथैतदपि एकत्ववादिना यदपर्यवसितत्वादि क्रमोपयोगे केवलिनि प्रेर्यते तदपि सार्वदिककेवलज्ञानदर्शनशक्तिसमन्वयात् उपपद्यत इत्यर्थः । भण्यते अत्रोत्तरं दीयते यथैवाहन्न पञ्चज्ञानी तथैवेतदपि कमवादिना यदुच्यते भेदतो ज्ञानवान् दर्शनवांप्टा तदपि, न भवतीत्यर्थः । मत्याद्यावरणक्षयेऽपि एकदेशग्राहिणो मतिज्ञानादेरिव दर्शनावरणक्षयेऽपि तादृशदर्शनस्य केवलिनि भेदेनानुपपत्तेरिति भावः । इयांस्तु विशेषः यदभेदेनापि केवलज्ञाने दर्शनसंज्ञा सिद्धान्तसम्मता, न तु मतिज्ञानादिसंज्ञेति, तत्र हेतू अन्वर्थोपपत्त्यनुपपत्ती एव द्रष्टव्ये । अयं च प्रौढिवादः । वस्तुतः क्रमवादे यदा जानाति तदा पश्यति इत्यादेरनुपपत्तिरेव, आश्रयत्वस्यैवाख्यातार्थत्वात् । लब्धेरतदर्थत्वे तु घटाऽदर्शनवेलायामपि ‘घटं पश्यति' इति प्रयोगप्रसङ्गात्, घटदर्शनलब्धेः तदानीमपि विद्यमानत्वात् । 'चक्षुष्मान् सर्वं पश्यति न त्वन्धः' इत्यादौ त्वगत्या लब्धेर्योग्यताया वाख्यातार्थत्वमभ्युपगम्यत एव, न तु सर्वत्राप्ययं न्यायः अतिप्रसङ्गात् । न च सिद्धान्ते विना निक्षेपविशेषमप्रसिद्धार्थे पदवृत्तिरवधार्यते । षट्षष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेर्लब्ध्यपेक्षयैवेति दुर्वचम्, एकस्या एव क्षयोपशमरूपलब्धेस्तावत्कालमनवस्थानात्, द्रव्याद्यपेक्षया विचित्रापरापरक्षयोपशमसन्तानस्यैव प्रवृत्त्युपगमात् । किन्तु एकजीवावच्छेदेन अज्ञानातिरिक्तविरोधिसामग्र्यसमवहितषट्षष्टिसागरोपमक्षणत्वव्याप्यस्वजातीयोत्पत्तिकत्वे सति तदधिकक्षणानुत्पत्तिकस्वसजातीयत्वरूपं तत् पारिभाषिकमेव वक्तव्यम्, एवमन्यदप्यूह्यम् । [ मत्यादिज्ञानचतुष्करूपे दृष्टान्ते यत्र यत्रोपयोगे विषयभेदस्तत्र तत्रासर्वार्थत्वमिति व्याप्तेर्भावनम् ] क्रमेण युगपद्वा परस्परनिरपेक्षस्वविषयपर्यवसितज्ञानदर्शनोपयोगौ केवलिन्यसर्वार्थत्वान्मत्यादिज्ञानचतुष्टयवन्न स्त इति दृष्टान्तभावनायाह पण्णवणिज्जा भावा समत्तसुयणाणदसणाविसओ । ओहिमणपज्जवाण उ अण्णोण्णविलक्खणा विसओ ।।१६।। मतिश्रुतयोरसर्वपर्यायसर्वद्रव्यविषयतयाऽभिन्नार्थत्वे श्रुतस्यासर्वार्थग्रहणात्मकभावनया मतिरपि तथा भावितैवेति श्रुतज्ञानस्यैव गाथायामसर्वार्थत्वभावना प्रदर्शिता । प्रज्ञापनीयाः शब्दाभिलाप्या भावा द्रव्यादयः समस्तश्रुतज्ञानस्य द्वादशाङ्गवाक्यात्मकस्य दर्शनाया 1-य (ज्ञानबिन्दु)।. Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314