Book Title: Sammatitarka Prakaranam Part 1
Author(s): Siddhasen Divakarsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

Previous | Next

Page 191
________________ संमतितर्कप्रकरणे, काण्ड - ३, गाथा- ४-५ [ आप्तवचने समुपतिष्ठमानाया एकान्तपक्षाश्रिताया आशङ्काया अनेकान्तपक्षाश्रयणेन निराकरणम् ] ननु प्रत्युत्पन्नपर्यायस्य स्वकालवदतीताऽनागतकालयोः सत्त्वे अतीताऽनागतकालयोर्वर्तमानकालतापत्तेः अन्यथा तद्रूपतया तयोस्तत्सत्त्वासंभवात्-त्रैकाल्यायोगात् तस्य तद्विशिष्टतानुपपत्तेस्तथाभूतार्थप्रतिपादकं वचनमप्रतीत्यवचनमेवेत्याशङ्क्याऽऽह दव्वं जहा परिणयं तहेव अस्थि त्ति तम्मि समयम्मि । विग - भविस्सेहि उ पज्जएहिं भयणा विभयणा वा ।।४।। १४६ द्रव्यं चेतनाचेतनम्, यथा तदाकारार्थग्रहणरूपतया घटादिरूपतया वा परिणतं वर्तमानसमये तथैव अस्ति । विगत- भविष्यद्भिस्तु पर्यायेर्भजना कथंचित् तैस्तस्यैकत्वम्, विभजना विगतभजना नानात्वं कथंचित्, 'वा' शब्दस्य कथंचिदर्थत्वात् । ततः प्रत्युत्पन्नपर्यायस्य विगत - भविष्यद्भयां न सर्वथैकत्वमिति कथं तत्प्रतिपादकवचनस्याप्रतीत्यवचनतेति भावः । ।४ ।। [ संभवद्भिः पर्यायैर्घटादेर्वस्तुनः अस्तित्व - नास्तित्वप्ररूपणम् ] ननु घटादेरर्थस्य कैः पर्यायैरस्तित्वम् अनस्तित्वं वा ? इत्याहपरपज्जवेहिं 'असरिसगमेहिं णियमेण णिचमवि नत्थि । सरिसेहिं पि वंजणओ अत्थि ण पुणऽत्थपज्जाए ।।५।। वर्तमानपर्यायव्यतिरिक्तभूत-भविष्यत्पर्यायाः परपर्यायास्तैर्विसदृशगमैर्विजातीयज्ञानग्रायैर्नियमेन निष्टायेन नित्यं सर्वदा नास्ति तद् द्रव्यम्, तैरपि तदा तस्य सद्भावे अवस्थासंकीर्णताप्रसक्तेः । सदृशैस्तु व्यञ्जनतः सामान्यधर्मैः सत् - द्रव्य-पृथिवीत्वादिभिः विशेषात्मकैप्टा शब्दप्रतिपाद्यैरस्ति, सामान्य - विशेषात्मकस्य शब्दवाच्यत्वात् । सामान्यमात्रस्य तद्वाच्यत्वे शब्दादप्रवृत्तिप्रसक्तेरर्थक्रियासमर्थस्य तेनानुक्तत्वात् सामान्यमात्रस्य च तदुक्तस्यार्थक्रियाऽनिर्वर्तकत्वात्, विशेषमन्तरेण सामान्यस्यासंभवात् सामान्यप्रतिपादनद्वारेण लक्षणया 1 विसरिसगमेहिं (अने.व्य.) Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314