________________
संमतितर्कप्रकरणे, काण्ड - ३, गाथा- ४-५
[ आप्तवचने समुपतिष्ठमानाया एकान्तपक्षाश्रिताया आशङ्काया अनेकान्तपक्षाश्रयणेन निराकरणम् ]
ननु प्रत्युत्पन्नपर्यायस्य स्वकालवदतीताऽनागतकालयोः सत्त्वे अतीताऽनागतकालयोर्वर्तमानकालतापत्तेः अन्यथा तद्रूपतया तयोस्तत्सत्त्वासंभवात्-त्रैकाल्यायोगात् तस्य तद्विशिष्टतानुपपत्तेस्तथाभूतार्थप्रतिपादकं वचनमप्रतीत्यवचनमेवेत्याशङ्क्याऽऽह
दव्वं जहा परिणयं तहेव अस्थि त्ति तम्मि समयम्मि ।
विग - भविस्सेहि उ पज्जएहिं भयणा विभयणा वा ।।४।।
१४६
द्रव्यं चेतनाचेतनम्, यथा तदाकारार्थग्रहणरूपतया घटादिरूपतया वा परिणतं वर्तमानसमये तथैव अस्ति । विगत- भविष्यद्भिस्तु पर्यायेर्भजना कथंचित् तैस्तस्यैकत्वम्, विभजना विगतभजना नानात्वं कथंचित्, 'वा' शब्दस्य कथंचिदर्थत्वात् । ततः प्रत्युत्पन्नपर्यायस्य विगत - भविष्यद्भयां न सर्वथैकत्वमिति कथं तत्प्रतिपादकवचनस्याप्रतीत्यवचनतेति भावः । ।४ ।।
[ संभवद्भिः पर्यायैर्घटादेर्वस्तुनः अस्तित्व - नास्तित्वप्ररूपणम् ] ननु घटादेरर्थस्य कैः पर्यायैरस्तित्वम् अनस्तित्वं वा ? इत्याहपरपज्जवेहिं 'असरिसगमेहिं णियमेण णिचमवि नत्थि । सरिसेहिं पि वंजणओ अत्थि ण पुणऽत्थपज्जाए ।।५।। वर्तमानपर्यायव्यतिरिक्तभूत-भविष्यत्पर्यायाः परपर्यायास्तैर्विसदृशगमैर्विजातीयज्ञानग्रायैर्नियमेन निष्टायेन नित्यं सर्वदा नास्ति तद् द्रव्यम्, तैरपि तदा तस्य सद्भावे अवस्थासंकीर्णताप्रसक्तेः । सदृशैस्तु व्यञ्जनतः सामान्यधर्मैः सत् - द्रव्य-पृथिवीत्वादिभिः विशेषात्मकैप्टा शब्दप्रतिपाद्यैरस्ति, सामान्य - विशेषात्मकस्य शब्दवाच्यत्वात् । सामान्यमात्रस्य तद्वाच्यत्वे शब्दादप्रवृत्तिप्रसक्तेरर्थक्रियासमर्थस्य तेनानुक्तत्वात् सामान्यमात्रस्य च तदुक्तस्यार्थक्रियाऽनिर्वर्तकत्वात्, विशेषमन्तरेण सामान्यस्यासंभवात् सामान्यप्रतिपादनद्वारेण लक्षणया
1 विसरिसगमेहिं (अने.व्य.)
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org