________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-५
१४७
विशेषप्रतिपादनमपि शब्दान्न संभवति, क्रमप्रतिपत्तेरसंवेदनात्; विशेषाणां त्वानन्त्यात् संकेतासंभवतः शब्दावाच्यत्वम् । परस्परव्यावृत्तसामान्य-विशेषयोरप्यवाच्यत्वम् उभयदोषप्रसङ्गात् । तत उभयात्मकं वस्तु गुण-प्रधानभावेन शब्देनाभिधीयत इति सदृशैर्व्यञ्जनतोऽस्तीत्युपपन्नम् । न पुनर्नैव अर्थपर्यायैः ऋजुसूत्राभिमतार्थपर्यायेण तद् अस्ति, अन्योन्यव्यावृत्तवस्तुस्वलक्षणग्राहकत्वात् तस्य । अयं चार्थः पूर्वसूत्र एव प्रदर्शित इत्यन्यथा गाथासूत्रं व्याख्येयम-अन्यवस्तुगताः पर्याया विसदृशसदृशतया द्विप्रकाराः, तत्र विसदृशैर्विवक्षितो घटादि वास्ति । सदृशैस्तु कैप्टिादुक्तवदस्ति, कैप्टिान्नेति तात्पर्यार्थः ।।५।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प.७४ ततः सदृशव्यञ्जनपर्यायैरेव सर्वमस्ति न त्वन्यैरित्ययमनेकान्त एव व्यवस्थितः, तदिदमुक्तं[सम्मतौ]
"परपज्जवेहिं 'विसरि-सगमेहिं णियमेण णिञ्चमवि णत्थि ।।
सरिसेहि वि वंजणओ, अत्थि ण पुण अत्थपजाए ।।३/५।।" विसदृशगमैर्विजातीयज्ञानग्राद्यैः ।
-: अष्टसहसीतात्पर्यविवरणे :
परि. १, का. १५ तत्त्वतस्तु सामान्यदृष्ट्या सर्वे निरपेक्षा विशेषदृष्ट्या च सर्वे सापेक्षा इति व्यापकोऽनेकान्त एव विजयते, व्यञ्जनपर्यायैः सदृशानामप्यर्थपर्यायैर्वेसदृश्यस्य शास्त्रसिद्धत्वात् । तदाह प्रवचनोपनिषद्वेदी महावादी सिद्धसेनः-[सम्मतौ]
परपज्जवेहिं असरिसगमेहिं णियमेव णिच्चमवि णत्थि । सरिसेहिं पि वंजणओ अत्थि ण पुणत्थपज्जाए ।।१।। इति, [३/५]
1 असरिसगमेहिं (संमति.)
___JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org