________________
१४८
संमतितर्कप्रकरणे, काण्ड-३, गाथा-६
[ वर्तमानपर्यायेऽपि द्रव्यस्यानेकान्तात्मकत्वसमर्थनम् ] ननु प्रत्युत्पन्नपर्यायेण भावस्यास्तित्वनियमे एकान्तवादापत्तिरित्याशङ्क्याह
पचुप्पण्णम्मि वि पज्जयम्मि भयणागई पडइ दव्वं ।
जं एगगुणाईया अणंतकप्पा गम[गुण विसेसा ।।६।। वर्तमानेऽपि परिणामे स्व-पररूपतया सदसदात्मरूपताम्, अधो-मध्योर्खादिरूपेण च भेदाऽभेदात्मकतां च भजनागतिमासादयति द्रव्यम्, यत एकगुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गुणविशेषास्तेषां च मध्ये केनचिद् गुणविशेषेण युक्तं तत् । तथाहि-कृष्णं द्रव्यं तद्रव्यान्तरेण तुल्यम् अधिकम् ऊनं वा भवेत् प्रकारान्तराभावात्, प्रथमपक्षे सर्वथा तुल्यत्वे तदेकत्वापत्तिः; उत्तरपक्षयोः संख्येयादिभागगुणवृद्धि-हानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यंभाविनी ।
स्यादेतत् पुद्गलद्रव्यस्य तादृग्भूतापरपुद्गलद्रव्यापेक्षया अनेकान्तरूपता युक्ता, प्रत्युत्पन्ने त्वात्मद्रव्यपर्याये कथमनेकान्तरूपता ? न, आत्मपर्यायस्यापि ज्ञानादेस्तत्तद्ग्राह्यार्थापेक्षयाऽनेकान्तरूपता पुद्गलवन्न विरुध्यते । तथा द्रव्य-कषाय-योगोपयोग-ज्ञान-दर्शन-चारित्रवीर्यप्रभेदात्मकत्वादात्मनः पुद्गलवदनेकान्तरूपता आर्षे प्रतिपादितैव“कइविहे णं भंते ! आया पण्णत्ते ? गोयमा ! अट्ठविहे । तं जहा-दविए आया" [भगवतीसू० शत० १२, उ० १०] इत्यादौ ।।६।।
-: अनेकान्तव्यवस्थायां :
अनेकान्तवादस्वरूपवर्णने प. ७४ नन्वेवमपि प्रत्युत्पन्नपर्यायेणास्तित्वनियमेऽप्येकान्तवादापत्तिरिति चेत्, अत्राहु:- [सम्मतौ]
“पच्चुप्पण्णंमि वि पजयंमि भयणागइं पडइ दव्वं ।
जं एगगुणाईया, अणंतकप्पा गम [गुण] विसेसा ।।३/६ ।।" “प्रत्युत्पन्नेऽपि वर्तमानेऽपि, पर्याये, स्वपररूपतया सदसदात्मिकां मध्योर्खादिरूपेण च भेदाभेदात्मिकां भजनागतिं विकल्पपद्धति, पतत्यासादयति, द्रव्यं, यद्यस्मात्कारणाद्, एकगुणकृष्णत्वादयोऽनन्तकल्पा अनन्तप्रकारास्तत्र गुणविशेषाः, तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org