________________
संमतितर्कप्रकरणे, काण्ड-३, गाथा-७
तत्, तथाहि, कृष्णं द्रव्यं तद् द्रव्यान्तरेण तुल्यमधिकमूनं वा भवेत्, प्रकारान्तराभावात्, प्रथमपक्षे सर्वथातुल्यत्वे तदेकत्वापत्तिः, तथा च नीलनीलतरादिप्रतीतिबाधः, उत्तरपक्षयोः सङ्ख्येयादिभागगुणवृद्धिहानियां षट्स्थानकप्रतिपत्तिरवश्यम्भाविनीति प्रत्युत्पन्नपर्यायेणापि भजनाऽबाधितैव ।। -: न्यायखण्डखाद्ये (महावीरस्तवे ) :विभाग-३, गा-४३
यथा च नानाजातिसमावेशनिबन्धनष्टिशत्रव्यवहारस्तथा नानापर्यायसमावेशनिबन्धनोऽपि, भेददृष्ट्या तथानुभवात्, षड्गुणहानिवृद्धिपर्यायाणां स्वकारणायातत्वाच्च तदुक्तम् - [सम्मत्तौ ] “पचुप्पण्णंमि वि पज्जयंमि भयणाग पडइ दव्वं । जं एगगुणाईआ अणंतकप्पा गमविसेसत्ति” [३/६]
तस्मादीदृशि सूक्ष्मेऽर्थे मनोऽनिवेशयतः शिरोमणेः प्रज्ञापराध एव भूयानिति किमत्र ब्रूमः । ।४३ ।। [ आत्मनोऽनेकान्तात्मकत्वस्य बुद्धिगम्यतया प्रदर्शनम् ]
इतष्टानेकान्तात्मकता आत्मनः प्रतिपत्तव्येत्याह
कोवं उप्पायंतो पुरिसो जीवस्स कारओ होइ । तत्तो विभयव्वो परम्मि सयमेव भइयव्वो ।।७।।
१४९
कोपपरिणतिमुपनयन् पुरुषो जीवस्य परभवप्रादुर्भावे निर्वर्तको भवति, तन्निमित्तस्य कर्मण उपादानात् । कोपपरिणाममापद्यमानष्टा पुरुषस्ततः परभवजीवाद् विभजनीयो भिन्नो व्यवस्थापनीयः, कार्य-कारणयोर्मृत्पिण्ड-घटवत् कथंचिद् भेदात्; अन्यथा कार्य-कारणभावाभावप्रसङ्गात् । न चासौ ततो भिन्न एव परस्मिन् भवे स्वयमेव पुरुषो भजनीयः आत्मरूपतया अभेदेन व्यवस्थाप्यत इति भावः घटाद्याकारपरिणतमृद्द्रव्यवत् कथंचिदभिन्न इत्यनेकान्तः ।
यद्वा कोपपरिणतिमन्यस्मिन् जीवे उत्पादयन् पुरुषः कारको भवति । ततोऽसौ कोपकारकत्वेन विभजनीयः कोपपरिणतियोग्ये जीवे कारकः, अन्यत्राकारक इति ।।७।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org